________________
१०४
[ श्रीवीतरागस्तोत्रे मुच्यते । न च नित्यैकस्वभावस्येत्थम्भूतः क्रमः सम्भाव्यते, नित्यै - कस्वभावताव्याघातप्रसङ्गात् । यदा ह्येकत्र देशे एकं कार्यम्, अपरं चान्यत्र करोति, तदा पूर्वस्मिन् देशे पूर्वकार्यकरणसामर्थ्यमेव (पूर्वकार्यकरणस्यैव सामर्थ्यम्) नोत्तरकार्यकरणसामर्थ्यम्, अन्यथा पूर्वस्मिन्नेव देशे तस्याऽप्युत्पत्तिप्रसङ्गः तथा च पूर्वोत्तर देशयोः स्वभावभेदान्नित्यैकरूपताव्याघातो भवेदेव । ननु नित्यैकस्वभावस्य पदार्थस्यैकत्र देशे सर्वकार्योत्पादनसामर्थ्य सद्भावेऽपि नोत्तरोत्तर देशभाविकार्यं भवेत् । सहकारिकारणाभावादिति चेत् , उच्यते-सहकारिणः किं तस्योपकारकत्वेनैकार्थकारित्वेन वा ? ! प्रथमपक्षे किमसावुपकारस्ततोऽव्यतिरिक्तः, व्यतिरिक्तः कथविव्यतिरिक्तो वा !; गत्यन्तरभावात् । यद्यव्यतिरिक्तस्तदा नित्यताहानिः । न खलूपकारादनित्यादभिन्नस्य भावस्य नित्यत्वं नाम, तत्स्वरूपवत् । भेदैकान्तवादाभावश्च योगस्य । अथ व्यतिरिक्तो विधीयते, तर्हि तस्येति व्यपदेशाभावः, सम्बन्धाभावात् । न च सम्बन्धाभावोऽसिद्धः । स हि संयोगलक्षणस्तादात्म्यलक्षणः समवायलक्षण उपकार्योपकारकलक्षणोseष्टलक्षणो वा । न तावत्संयोगः, तस्य गुणत्वेन द्रव्यवृत्तित्वात्, 'द्रव्ययोरेव संयोग' इतिवचनात् । नापि तादात्म्यम्, तस्यानभ्युपगमादन्यथा अनेकान्तवादप्रवेशो योगस्य । नापि समवायलक्षणः, स ह्येकः सर्वगतश्च परैरिष्यते । कथं तद्वशात्तत्रैव तस्य भावः, नान्यत्रेति । अथ समवायस्य सर्वगतत्वाविशेषेऽपि समवा - यिनां प्रतिनियमः प्रत्यासत्तिविशेषसद्भवादिष्यते, स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यात् । नाप्युपकार्योपकारकलक्षणः, उपकारकेण ग्रुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org