________________
अष्टमः प्रकाशः ]
१०३ अनु०-नित्य पदार्थोने विषे क्रमथी के अक्रमथी अर्थक्रिया घटती नथी, अने एकान्त-क्षणिक-पक्षमा पण क्रमथी के अक्रमथी अर्थक्रिया घटती ज नथी. ४
- अन्यत् किम् ?, जीवाजीवादिपदार्थानां नित्यानित्यतां विना अर्थक्रियैव न स्यादित्याह
अव-क्रमा० हे वीतराग ! नित्यानां वस्तूनां क्रमाक्रमाभ्यामर्थक्रिया न युज्यते-न घटते, यथा-यदि घटो नित्यस्तदा जलाहरणं न करोति, कुतः ?, नित्य एकरूप एव; न तु रिक्तभृताद्यवस्थावैचित्र्य भजते । तथा पदार्थानामेकान्तक्षणिकत्वे विनश्वरत्वेऽप्यर्थक्रिया जलाहरणादिका न घटते, बहु. क्षणनिष्पाद्यत्वात्तस्याः; अर्थक्रियाया अभावे चासत्वमेव ॥४॥
एतदेव निगमयन्नाह
वि०-अप्रच्युतानुत्पन्नस्थिरेकरूपाणां नित्यानां क्रमेणाक्रमेणाप्यर्थक्रियाकारित्वं न युज्यते । तथाहि-नास्ति नित्यैकरूपआत्मादिरनर्थ क्रियाकारित्वात् , यद्यदनर्थक्रियाकारि तत्तन्नास्तीत्युपलब्धम् , यथा-खपुष्पम् , अनर्थक्रियाकारी च नित्यैकरूप आत्मादिः, तस्मान्नास्तीति निश्चीयते । न चानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः । अर्थक्रियाकारित्वं हि कार्यकर्तृत्वमुच्यते । तच्चात्मादेः क्रमेण योगपद्येन वा ?, प्रकारान्तराभावात् । न तावत्क्रमेण घटते, क्रमो हि द्विधा, देशक्रमः कालक्रमश्च । न तावद्देशक्रमेण कुर्यात् , देशक्रमो ह्येकत्र देशे कार्यमेकं कृत्वा पुनर्देशान्तरेऽन्यकार्यकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org