________________
१०२
[ श्रीवीतरागस्तोत्र नानित्यता । यो हि बद्धः, स बद्ध एव, एवं सति सर्वदा मुक्तिविलयः एव । तथा च सति कः पापमपहाय पुण्यपण्यं नैपुण्येन संगृहीयात् । कश्चात्मारामाविरामविश्रामेण माध्यस्थ्यमवलम्ब्य सम्यक्तत्त्वोनिपातप्रवृत्ति कुर्यात् । एवं च सति सर्वधर्मविलय एव । तथा च सर्वशास्त्राम्भोधिकुम्भसम्भवत्वाविर्भावो नित्यैकान्तवादिभिरेवोक्तः स्यात् । तस्माद्युक्तमेवोक्तम्- "पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने” इति । तथाऽनित्येकान्तदर्शनेऽपि न पुण्यापुण्यसम्भवः । कथमिति चेत् ?, उच्यते-क्षणिको ह्यात्मा पुण्यापुण्यादिकं क्रमेणानुवीत युगपद्वा ?, क्रमेण चेत्तदा यस्मिन् क्षणे पुण्यम् , तदा नापुण्यगाक्रान्तम् , एवं च क्षणिकत्वक्षतिः; द्वितीयमपुण्यक्षणं यावदात्मनोऽनवस्थानात् । युगपत्पक्षस्तु विरोधवाधाविधुर एव । एवं बन्धमोक्षावप्येकान्तानित्यपक्षे विचार्यमाणो विशीर्यते । अत एकान्तनित्यानित्यपक्षौ न क्षेमङ्करौ, तम्मान्नित्यानित्य आत्मा; पुण्यपायबन्धमोक्षाद्यन्यथानुपपत्तेरिति ।
एवं च सत्त्वस्यैकान्तनित्यतायामेकान्तानित्यतायां च न केवलं कृतनाशाकृतागमसन्निपातविनिपात एव । किञ्चात्मनोऽपि तथात्वाभ्युपगमे न केवलं सुखदुःख भोगपुण्य पापबन्धमोक्षक्षतिरेव, यावदखिलस्याप्यात्मादिवस्तुस्तोमस्य नित्यानित्यतायामनाद्रियमा. णायामकाण्डकूष्माण्डोद्भेदसोदरमनान्तरमपि निपततीत्याहक्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि, युज्यतेऽर्थक्रिया न हि ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org