________________
अष्टमः प्रव
१०१ न कदाचित् कालुष्यम् , राहोर्यदि कालुष्य तर्हि सर्वदापि तदेव । एवं यदि बन्धस्तर्हि बन्ध एव, यथा मेरोः पृथ्वीपीठेन सह । यदि मोक्षस्तर्हि स एव, न तु वन्धः । तथाऽनित्यैकान्तदर्शने क्षणक्षयिजीवमतेऽपि पुण्यपापे बन्धमोक्षौ च न सम्भवन्ति, क्रमेण तेषां स्वीकारे चतुःक्षणस्थायित्वं स्यात् , युगपद्यदि तदा छायातपवजलाग्निवच्च विरुद्धानां तेषां कथमेकत्रात्मन्यवस्थानं स्यादिति ।। ३ ॥
वि०-न तावन्नित्यैकान्तात्ममते पुण्यपापे सम्भवतः । यतोनित्यो ह्यात्मा पुण्य पापानुपाती स्वभावभेदमन्तरा न सम्भवति ! पुण्यपापाभ्यां च पूर्व परिणाम परित्याज्योत्तरपरिणामवानात्मा निर्मीयते । परिणामानित्यत्वं च नित्यत्वक्षतिकारि । " यदि पूर्वपरिणामपरिहारेणोत्तर परिणामाश्रयणं तदा किं नामात्मनो नित्यत्वव्यत्यासकरम् ?, परिणामयोरेवानित्यत्वात् । यद्यन्यस्या नित्यतयाऽन्यस्यानित्यत्वम् , तदा अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वमागतमित्यपि किं न स्यात् ?" इति चेत् , तन्न, परिणामपरिणामवतोः कथञ्चिदभेदात्। कथञ्चिदभेद एवं कथमिति चेत् ?, एतद् ब्रूमः। परिणामपरिणामिनौ कथञ्चिदभिन्नौ, परिणामोपकारापकाराभ्यां परिणामिनोऽप्युपकारापकारप्रवृत्त्युपपत्तेः । तम्मान्नित्यैकान्तपक्षे न पुण्यपापोदयः समीचीनतामञ्चति । किञ्च -नित्यैकान्ते बन्धमोक्षावपि न युज्यतै । यदि बन्धस्वभावमपहाय मुक्तिमाकलयति तदा स्वभावपरिभवे कथं
1 यथा भनस उक्त च एवम् । “मन एकडबक्कडओ जइ कामइ थिर थाइ । चंदिलिहा बउलीहडी तिदणि ऊभि बाहु ॥१॥इति भुद्रितपुस्तकेऽधिकं दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org