________________
१००
[ श्रीवीतरागस्तोत्रे स्त्विति चेत् ?, तन्निराचिकीर्षुराह--एकान्तेत्यादि । एकान्तानित्यस्वभावेऽप्यात्मन्यभ्युपगम्यमाने सुखदुःखयोरभोगभाक्त्वमेवास्य स्यात् । तथाहि-एकान्तक्षणिको ह्यात्मा क्रमेण चेत्सुखदुःखे भुते तदा क्षणिकत्वक्षतिः । क्रमो हि परिपाटी, सा च सातत्यमन्तरेण न सम्भवति, तदभिमतं च क्षणिकत्वमेकक्षणरूपम् , तन्न क्रमेण सुखदुःखोपभोगः । युगपञ्चेत्तदा पूर्वविरोध एव बाधाविधायि । तस्मान्नित्यानित्यरूप आत्मा, सुखदुःखोपभोगान्यथानुपपत्तेरित्यनुमानानित्यानित्यात्मसिद्धिः ।
किश्चैकान्तनित्यैकान्तानित्यपक्षकक्षीकारसारमते यद् दूषणान्तरात्मनोऽवतरति तदाहपुण्यपापे बन्धमोक्षौ, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ, नानित्यैकान्तदर्शने ॥३॥
अनु०-एकान्त नित्य दर्शनमां पुण्य पाप अने बन्ध मोक्ष घटतां नथी. एकान्ते अनित्य-दर्शनमा पण पुण्य पाप अने बन्ध मोक्ष घटतां नथी. (३)
दोषान्तरमाह
अव०-हे वीतराग ! नित्यैकान्तदर्शने आत्मनि नित्यत्वाङ्गीकारसारमते पुण्यपापे बन्धमोक्षौ कर्मबन्धतत्क्षयौ च न स्युः । तथाहि-आत्मनो यदि पुण्यं तर्हि पुण्यमेव, यदि पापं तर्हि पापमेव, नित्यत्वात् । यथा-शशिन औजवल्यं तर्हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org