________________
अष्टमः प्रकाशः ।
एवं सामान्येन नित्यानित्यत्वमभिधायात्मनोऽपि तदर्शयति ----
अन०आत्म० हे वीतराग ! आत्मनि जीवे एकान्त. नित्ये ऽङ्गीक्रियमाणे सुखदुःखयोोगो न स्यात् , कुतः ?, यदि सुखं भोक्तुमारब्धं तर्हि सर्वदापि सुखमेव; यदि दुःखं तदा तदेव भवेत् । अन्यथा सुखमुपभुज्य दुःखस्य, दुःखं चोपभुज्य सुखस्योपभोग्यात्मा सुखितया विनश्य दुःखितयोत्पन्नस्तया वा विनश्य सुखितयोत्पाद(मुखितयोत्पन्न) इति (न स्यात् ) । एकान्तानित्यरूपेऽध्यात्मनि सुखदुःखयोभोंगो न स्यात् , उत्पत्त्यानन्तरं क्षणविनष्टत्वात् । सुखदुःखे तु चन्दनाङ्गनारोगकण्टकादिसाधनयो गोपभोगाभ्यां बहु. क्षणनिर्वाभ्यां साध्य इति ।। २ ।।
वि०-एकान्तनित्यत्वे ह्यात्मनः सत्यत्वेन मन्यमाने सुखदुःखयो गो न घटामटाट्यते । तथाहि-एकान्तनित्यः स ह्यात्मा सुखदुःखे क्रमेण भुते युगपद्वा ?, न तावत्क्रमेण, नित्यत्वव्याघातात् , नहि येनैव स्वभावेन दुःखं भुङ्क्ते, तेनैव सुखम् , तयोरेकत्वप्रसङ्गात् , स्वभावभेदे चैकस्वभावनित्यत्वक्षतिः (च नित्यैकस्वभावक्षतिः) युगपच्चत् ?, तदपि न; नहि कदाचिदपि छायातपयोरिव परस्परपरिहारविरोधव्याघ्राघातयोः सुखदुःखयोयुगपदनुभवः सम्भवति । तस्मादेकान्तनित्ये जीवस्वतत्त्वे न कदाचिदपि सुखदुःखोपभोगः । यद्येवं तर्खेकान्तानित्यात्मपक्षकक्षीकारबद्धकक्षं सुगतमतमेवानुमतम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org