________________
। श्रीवीतरागस्तोत्रे नमवलम्बमानौ दुर्निवारावेव स्याताम् । यतः-सर्वथैव तदभिमते वस्तुनि स्वीक्रियमाणे पर्यायाणां निराधारत्वेन स्थातुमशक्तौ घटादेरनुत्पाद एव प्रसज्येत । तथाहि-पूर्वक्षणे यद्यद् घटादिद्रव्यमासीत् तत्तत् द्वितीयक्षणे सर्वथा निर्हेतुकं विनष्टमेव । तत् कम्य स्थासकोशकुशूलादिसंस्काराधानं विधातुमुचितम् ? । दृश्यन्ते च प्रत्यक्षादिप्रमाणैः संस्काराः, अतस्तन्मते कृता अप्यकृताः स्युः, तथा निरन्वयनश्वरे वस्तुनि संस्काराणामुत्पादयितुमशक्यत्वात् कुतः स्थासादीनां पर्यायाणामवकाशः ?, अतः प्रतीयते--तन्मतेऽनिच्छयैव गलेपादिकान्यायादुपनत एवाकृतागमः । एवं च स्वपरपक्षयोरपक्षपातेनैव व्यवस्थितं नित्यानित्यात्मकं वस्तुतत्त्वम् । प्रयोगश्चायम्विवादास्पदीभूतं वस्तुतत्त्वं नित्यानित्यात्मकम् , कृतनाशाकृतागमादिदोषाभावस्यान्यथानुपपत्तेः । न च दृष्टान्तमन्तरेण हेतोर्न गमकत्वम् , अन्तस्त्यैिव ; साध्य सिद्धेः । सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् , इत्यादिवदिति।
ननु भवतु बाह्यतत्त्वं नित्यानित्यात्मकम् , परमात्मतत्त्वमेवरूपमेवाभ्युपगम्यमानमौचितीमञ्चतीत्याशङ्कयाह--
आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः। एकान्तानित्यरूपेऽपि, न भोगः सुखदुःखयोः॥२॥
अनु०-आत्माने एकान्त नित्य मानवामां सुख दुःखनो भोग घटतो नथी. एकान्त अनित्य स्वरूप मानवामां पण सुख दुःखनो भोग घटतो नथी. (२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org