________________
अष्टमः प्रकाशः
स्य बौद्धाः एकान्तनाशमेकान्तेन विनश्वरत्वं मन्यन्ते, एवमपि कृतनाशाकृतागमौ स्याताम् । यथैकस्मिन्क्षणे ( यद् ) मृत्पिण्डद्रव्यमभृत्तद् द्वितीयक्षणे सर्वथा विनष्टम् , ततः कुम्भकारेण तत्र कुतोऽपि घटाकारो नश्यति, इति कृतनाशः । तथा मृद्र्व्यं यदि निःशेषं नष्टम् ,तर्हि स्थासकोशकुशूलबुध्नो. दरकर्णादि कुलालेन क्रियते दृश्यते च चक्षुषा, अतोऽकृतागमः१
वि०-उत्पादव्ययध्रौव्यात्मकं वस्तुतत्त्वं सत्त्वम् , तस्यैकान्तनित्यत्वेऽभ्युपगम्यमाने कृतनाशाकृतागमो स्याताम् । तथाहि-सा खयैरप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थनित्यं वस्त्वभ्युपगम्यते ! तच्च यद्येवं स्यात्तदा वस्तुनि घटादौ कुम्भकारादिकृतानां पर्यायाणां सर्वथा नाश एव स्यात् , एतच्च प्रत्यक्षविरुद्धम् । यतः-कुम्भकारादिभिर्निमीयमाणाः स्थासकोशकुशूलपृथुबुध्नोदराद्याकाराः कृशाकृशरूपतया क्षणे क्षणे दरीदृश्यन्ते । अतस्तेषां पर्यायाणामाविद्वदङ्गनाप्रतीतानां विनाश एव स्यात् । ते च यदि न कृतास्तदा घटोऽप्यकृत एव स्यात् । कृतेष्वेव च तेषु घटोऽपि कृत । एवं च सति नित्यतातिः । तथा अकृतागमसङ्गमोऽपि स्यात् । तथाहि-पर्यायास्तावत्तन्मते कूटस्थनित्यत्वादेव केनचिन्न कृताः । अकृता एव च समुपस्थिताः । यदि कृताः स्युस्तदा घटस्यापि कृतकत्वे नित्य(त्व) पक्ष-क्षतिः । एतच्चानुष्णोऽग्निरित्यादिवत् प्रत्यक्षविलक्षणमकृतागमस्वरूपं कः सुधीः श्रद्दधीत । तथा ताथागतपरिकल्पिते स्वलक्षणस्य सर्वथा क्षणिकैकान्तपक्षेऽपि कृतनाशकृतागमौ स्थिरस्थेमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org