SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [ श्रीवीतरागस्तोत्रे ननु सिद्धं स्वयं सिद्ध जगत् तच्च किमेकान्तनित्यमुतैकान्तानित्यं नित्यानित्यं वेत्याशङ्काशङ्कसङ्कले विपश्चित्कुले स्तुतिकृदाह सत्त्वस्यैकान्तनित्यत्वे, कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि, कृतनाशाकृतागमौ ॥१॥ अनु०-पदार्थy एकान्त नित्यपणुं मानवामां कृतनाश अने अकृतागमनामनाबे दोष छे. एकान्त अनित्यपणुं मानवामां पण कृतनाश अने अकृतागम नामना बे दोष रहेला छे. (१) अथ तद्वचनानामप्रामाण्यमाहुः अव०-सत्त्व-हे वीतराग ! त्वया सत्वं वस्तुतचं नित्यानित्यात्मकं स्याद्वादमयं केवलज्ञानेन दृष्टं तथैव चाऽभिहितम् , तस्य च साङ्ख्या एकान्तेन नित्यत्वमङ्गीकुर्वते, तथा सति कृतनाशाकृतागमनामानौ दोषौ स्याताम् । तथाहिघटो यदि सर्वदा निष्पन्नसिद्धस्तथा कृतनाशः, कृतं कुम्भकारस्य मृदानयनक्लेदनचक्रारोपणाद्युपक्रमस्तस्य नाशो नैरर्थक्यं भवति, घटस्य नित्यं निष्पन्नत्वात् । अथाकृतागमः, यथा-यदि सर्व सर्वदापि नित्यम् , तदा घटाकारोऽपि नित्यः, तथा च सति मृत्पिण्डे पूर्वमदृष्टो घटाकारो नित्यत्वादकृत एवागतः, एवं चाकृतागमदूषणं स्यात् । तथा सत्त्वस्य द्रव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy