SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रकाशः ] ते आत्माओ प्रमाण रहित एवा सृष्टिसर्जनवादना दुराग्रहने छोडीने आपना शासनने विषे रमण करे छे. (८) उपसंहरन्त आहुः अव०-सृष्टि०हे वीतराग ! इति पूर्वोक्तप्रकारेणाप्रमाणकं युक्तिरहितम् । सृ० जगत्सर्गवादकदाग्रहमुन्मुच्य परित्यज्य, त्वच्छासने त्वदागमे, ते पुरुषा रमन्ते येषां त्वं प्रसीदसि प्रसन्नोऽसीतिभावः ।। ८ ।। वि०-हे विहितकुमतप्रमाथ नाथ !, पूर्वोक्तप्रकारेण पुरुषविशेषकृतायाः सृष्टेर्वादः-सृष्टिवादः स एवासद्हरूपत्वेन कुहेवाकः कदभिनिवेशस्तमुन्मुच्य-परित्यज्य, किमित्याह-इति प्रामुक्तयुक्त्या, अप्रमाणकं प्रमाणानुपपन्नम् , प्रमाणोपपन्नश्चतुर्दशरज्ज्वात्मकस्यापि लोकस्यायमेव वादो, यदुत "निष्पादितो न केनापि, न धृतः केनचिच्च सः । स्वयं सिद्धो निराधारो, गगने किन्त्ववस्थितः ॥ १॥" इति । एवं विधे च त्वच्छासने-त्वत्प्रवचने, त एव रमन्ते-इदमेव तत्त्वमिति स्वहृदा संवाद्य त एव मोदन्ते, येषां सुकृतप्राप्यप्रसादस्त्वं प्रसीदसि-प्रसादसुमुखो भवसि । इयता च सर्वात्मना त्वत्प्रसादलभ्या एव शुभसम्पदो भव्याङ्गभाजामित्यर्थापतितम् । इति श्रीवीतरागस्तोत्रे जगत्कर्तृत्वनिरासस्य सप्तमप्रकाशस्य पदयोजना। इति सप्तमजगत्कर्तृत्वनिरासप्रकाशावचूर्णिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy