SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ९४ वचनचातुरीप्रतिहते परे स्वयमाशङ्कयाहअव० - सर्व० यदि सर्वभावेषु पर्वतादिसकलपदार्थेषु ज्ञातृत्वमेव कर्तृत्वं सम्मतं तवाभीष्टम्, तर्हि नोऽस्माकं मतस्य सिद्धसाध्यता, न इति घण्टालालान्यायेनाग्रेऽपि सम्बध्यते, यतो नोऽस्माकमपि सर्वज्ञाः केवलालोकावलोकिताविकलभावाः, मुक्ताः कर्मरहिताः, कायभृतो दग्धरज्जुप्रायायुष्का (ष्कत्वा) दिना देहभृतोऽपि सन्ति विजयन्ते कञ्चित्कालमिति गम्यम् ॥ ७॥ [ श्रीवीतरागस्तोत्रे साधु भोः !, सत्यमसि प्रेक्षापूर्वकारी ?, ततौ यदि भूभूधरादिषु सर्वेष्वपि चराचरेषु भावेषु भवतो निजाप्तस्य ज्ञातृत्वमेव कर्तृत्वं संगतम् ; ततोऽस्माकमेवमेतत्सुतरां संगतम् । यतोऽस्मदाप्ता अपि भगवन्तो विमलकेवला लोकदर्पण संक्रान्तविश्वविश्वस्वरूपावलोकित्वेन सन्ति सर्वज्ञाः । भवबीजाङ्कुरजनकरागाद्यत्यन्ताभावेन च मुक्ताः, तथाविधभवोपग्राहि कर्मचतुष्टयपारतन्त्र्यात् कञ्चित्कालं कायभृतश्चेति न किञ्चिदसङ्गतम् । - एवं स्तुतिकृद्भगवदनुग्रहादुन्मीलदमल विवेकानभ्युपपत्तिपरापरानाधाय प्रकृते वीतरागस्तवे योजयन्नाह - सृष्टिवाद कुहे वाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि ॥ ८ ॥ " अनु० - हे नाथ ! आप जेमना उपर प्रसन्न छो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy