________________
सप्तमः प्रकाशः ] दाप्तनिश्चिताप्तत्वपरीक्षकाणामेष तत्स्वभावोक्तिलक्षणः परीक्षाक्षेपडिण्डिमः, केनाप्यस्य परीक्षा न विधेयेति प्रतिषेधार्थ पटहघोष इव, स च तत्त्वतोऽकीर्तिपटहघोष एव । कुतः ?, यत्किलैहिकाल्पप्रयोजनमात्रसाधकं कनकाद्युपादीयते तदपि तदर्थिभिः कषतापताडनच्छेदादिपरीक्षापूर्वकमेव, यस्माच्च सर्वोत्तमा परमपदावाप्तिरिष्यते, स कथं प्रेक्षापूर्वकारिभिरपरीक्षितः परिगृहीष्यत इति यत्किञ्चिदेतत् ।
एवं च यौक्तिकोक्तिनिरुत्तरः परोऽभ्युपगमकाम इवाचार्यमाह । साधु भगवन्नविसंवादसुन्दरेयं भवद्भणितिरेनमेव चार्थमस्मद्वर्या अपि पठन्ति " अत एव निरीक्ष्य दुर्घटम् , जगतो जन्मविनाशडम्बरम् । न कदाचिदनीदृशं जगत् , कथितं नीतिरहस्यवेदिभिः इति तस्मादिदमिह रहस्यम् । यत् किलास्मत्प्रभुर्न खलु जगन्ति सृजति, किन्तु विशिष्टज्ञानबलाद्विश्वविश्वतत्त्वं जानीते।
आचार्य:
सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ ___ अनु०-सर्व पदार्थोन ज्ञातृत्व एज जो कर्तृत्व छे, तो ए वात अमने पण सम्मत छे; कारण के अमारो ए मत छे के सर्वज्ञ, मुक्त-अशरीरी (सिद्ध) छे अने शरीरधारी (अरिहंत) पण छे, (७) ..
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org