________________
सप्तमः प्रकाशः ]
९१
नपुंसक समान ईश्वरने बच्चे लाववानी पण शी जरूर छे ? (५)
पर आह
अव० - कर्मा० तस्य भगवतः कृपालुतैवास्ति परं येन यादृशं कर्म कृतं तदपेक्षयैव शुभाशुभं सृजति । एवं यदि स कर्मापेक्षस्तर्हि न स्वतन्त्रो न स्ववशोऽस्मदादिवत् । दूषणान्तरमाहुः - कर्म० वैचित्र्ये शुभाशुभ सधन निर्धनादिलक्षणे कर्मजन्ये स्वस्वकर्मनिष्पादिते मन्यमाने, अनेन शिवेन शिखण्डिना - नपुंसकेनाकिञ्चित्करेणा जागलस्तनायमानेन किं 2, न किञ्चिदित्यर्थः ॥ ५ ॥
वि०- हे सरलस्वभाव !, चेद्यदि सोऽप्यतिशयज्ञानवैराग्यैश्वर्ययुक्तो भवदाप्तः, प्राणिनां शुभाशुभफलदानावसरे कर्मापेक्षः कर्मणो मुख भीक्षते, तर्हि शश्वत्कर्मपरतन्त्रोऽस्मदादिवन्न स्वतन्त्रः परायत्तस्य च किमीश्वरत्वम् । तदेवमस्मिन् जगति तिर्यग्मारकनरामरसुखितदुःखितसघन निर्धनसुभगादुर्भगस्वामिसेवकादिवैचित्र्ये निखिलेऽपि कर्मजन्ये कर्मोत्पाद्ये, अनेन भवदाहतेनेश्वरादिना शिखण्डिना सर्वथैवाकिञ्चित्करत्वात्तृतीयप्रकृतिना किम् ? न किञ्चिदित्यर्थः । एवं च किमन्यान्यगवेषणया ?, सर्वत्र स्वातन्त्र्येण व्यवहरतः कर्मणः एव भवत्वप्रतिहतं प्रभुत्वम् । पठन्ति च - "नमस्यामो देवान्ननु हत विधेस्तेऽपि वशगाः, विधिवन्द्यः सोऽपि प्रतिनियत कर्मै कफलदः । फलं कर्मायत्तं यदि किममरैः किञ्च विधिना, नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १ ॥ "
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org