SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रकाश: ] अव०-क्रीड० स शम्भुश्चेद्यदि क्रीडया प्रवर्त्तत तदा रागवान् स्यात्कुमारवत्-बालकवत् , यथा शिशवो जलक्लिन्नवालुकया देवकुलादि निर्माय क्षणं क्रीडित्वा स्वयमेव सर्व संहृत्य यथागतं यान्ति, अथ कृपया-दय या जगत्सृजेत्तर्हि सकलं सुख्येव सुखासक्तमेव सृजेन्न चैवं दृश्यते ॥३॥ वि०-हंहो ! यद्यसौ भुवनसृष्टिसंहारेषु क्रीडया विनोदमात्रेण प्रवर्तते तदा नियतं रागवान् स्यात् , क्रीडनविनोदनादीनि हि रागनिबन्धनान्येव, किंवत् ? कुमारवत् । यथाहि बालाः प्रावृट्कालादौ शैवलिनीपुलिनादिषु जलक्लिन्नवालुकाभिः प्राकारप्रासादमन्दिरारामादीनि विरचय्य क्षणं प्रमुदितमनसः क्रीडन्ति, कालान्तरे च स्वयमेव सर्वमुपसंहृत्य यथागतं यान्ति, न च तत्प्रवृत्तिः प्रेक्षावतामभिमता, एवं भवदाप्तस्यापीति । परः, यद्येवं नासौ क्रीडया जगन्ति सृजति, किन्तु कृपया। आचार्यः-भोः ! पर ! इदमपि भवद्विकल्पितं न प्रमाणपदवीमासादयति । पश्य ! यद्यसौ परमकारुणिकः कृपया करुणया सृजति तदा जगदप्यमन्दलक्ष्मीपरिस्पन्दसम्पद्यमानसकलमनोभिलषितार्थसार्थसुस्थितं सुख्येव किं न सृजेत् !, न चैतदेवम् ; ततश्चदुःखदौर्गत्यदुर्योंनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य, कृपालोः का कृपालुता?॥४॥ अनु०-दुःख, दौर्गत्य अने दुष्ट-योनिओने विषे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy