________________
[ श्रीवीतरागस्तोत्रे वि०--यः किलास्य जगतो निर्माता स तावत्परैरशरीरित्वेनाभ्युपगतः, तस्य च स्वयमदेहस्य जगत्तसर्गे विश्वनिर्माणे प्रवृत्तिरेव तावन्नोचिता, न हि स्वयमसिद्धः परान् साधयितुमलम् । न चैवं वाच्यम् , यदस्य भगवतः सर्वत्राप्रतिहता इच्छैव जगन्निर्माणे क्षमा, किमन्तर्गडुना देहेनेति । यतः इच्छा ह्यभिलाषरूपा, सा च शरीरवत् एवात्मनः समीचीना, सकलेच्छाजालविलये चाशरीरता, तस्मादसङ्गतमङ्गविरहितस्यास्य जगन्निर्माणम् । ननु यदि पुनः किमपि प्रयोजनमधिकृत्यासौ जगत्सर्गे प्रवर्तते ! नैवम् , प्रेक्षावत्प्रवृत्तिरिष्टाधिगमार्था वा स्यादनिष्टपरिहारार्था वा, न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे प्राप्तसमस्तकामे सम्भवतस्ततः किमस्य प्रयोजनम् । ननु कृतकृत्यस्यास्य मा भूत् प्रयोजनम् , न चासौ क्वचिदपि पराज्ञया प्रवतते, केवलमस्खलितमस्य जगति प्रभुत्वमतः “प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत्" ततः स्वातन्त्र्यादसौ जगत्सर्गसंहारैः क्रीडतीति । आचार्यःक्रीडया चेत्प्रवर्तेत, रागवान् स्यात् कुमारवत् । कृपयाऽथ सृजेत्तर्हि, सुख्येव सकलं सृजेत् ॥३॥ ___ अनु०-क्रीडा माटे जो प्रवर्ते तो बालकनी जेम रागवान् ठरे, अने जो कृपाथी बनावे तो सकल जगत्ने सुखी ज बनावे. (३)
इच्छाप्रवृत्तिरपि क्रीडया कृपया वा स्यादिति मनसि विकल्प्योत्तरयन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org