________________
ها
सप्तमः प्रकाशः राशिदेदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुषु महाभूतेषु महेश्वरस्याभिध्यानमात्रात्तेजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते, तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सर्वभुवनसहितमुत्पाद्य प्रजासतें विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्मातिशयधर्मज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः स्वसुतान् प्रजापतीन्मानसांश्च मनुष्यदेवर्षि पितृगणान्मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति तदेतत्सर्वमसङ्गतं कथमित्याह ---- अदेहस्य जगत्सर्गे, प्रवृत्तिरापि नोचिता । न च प्रयोजनं किंचित्, स्वातन्त्र्यान्न पराज्ञया॥२॥
अनु०-शरीर रहितने जगतनुं सर्जन करवानी प्रवृत्ति पण घटती नथी. कृतकृत्य होवाथी मर्जन करवानुं कांई प्रयोजन नधी अने स्वतंत्र होवाथी पारकानी आज्ञाए पण प्रवर्तवानुं नथी. (२)
शास्त्राद्युपदेशं निषिध्य जगत्कर्तृत्वं निरभ्यन्ति--
अव०-अदे. हे वीतराग ! अदेहस्याशरीरस्य जगत्सर्गे जगतः सृष्टौ प्रवृत्तिः प्रवर्तनमपि नोचिता स्वदेहानिष्पत्तेः । न च किश्चित्प्रयोजनं कार्यमस्ति, तेषां परवादिभिः कृतकृत्यत्वेन मन्यमानत्वात् । शिवास्तिकाः प्रोचुः-स भगवान पराज्ञया प्रवर्त्तते, किन्तु स्वातन्त्र्यात् स्वेच्छयैव ॥ २॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org