________________
[ श्रीवीतरागस्तोत्रे
आगमा हि वचनरूपाः, वचनानि च वक्तारमन्तरेण न सम्भवन्ति, वक्तुश्च वक्तृत्वं वदनाविनाभूतम् , वदनं चाङ्गसङ्गतमङ्गं च धर्माधर्मों विना नोपपद्यते । ततस्ते यद्यादित एव पुण्यपापविनिर्मुक्तास्तदा ध्रुवमशरीरिणः, शरीरविरहिताश्च नियतममुखाः, निर्मुखाश्च स्तम्भकुम्भोरुहादिवन्न परोपदेष्टारः इति यत्किञ्चिदेतत् ।
तथास्य जगतः सृष्टिसंहारावपि पुरुषविशेषकर्तृकाविति केचित् ब्रुवते च " ब्राह्मयेण मानेन वर्षशतान्ते वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारे खिन्नानां प्राणिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छाणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापर - माण्वन्तो विनाशः । तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः, ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते,धर्माधर्मसंस्कारानुविद्धाश्चात्मानस्तावन्तमेव कालम् । ततः प्राणिनां भोगमुक्तये महेश्वरस्य सिसृ. क्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो ब्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिनेव, आप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोष्लूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव पार्थिवेभ्यः परमाणुभ्यो यणुकादिक्रमेण महापृथ्वी समुत्पन्ना संहताऽवतिष्ठते । तस्मिन्नेव महादधौ तैजसेभ्यः परमाणुभ्यो व्यणुकादिक्रमेणोत्पन्नो महांस्तेजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org