SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रकाश: ] वि०-इह हि केचिन्महामोहोपहतमतयः पुण्यपापैरस्पृष्टानशरीरिणः स्वयम्भुवः स्वभावमुक्तस्वरूपान् किल स्वयं कृतकृत्यानपि भुवनजनानुग्रहाय हितोपदेशकान्निजातान्मन्यन्ते तच्च स्तुतिकृत् प्रत्यक्षानुपपत्त्या विसंवादयन्नाहधर्माधर्मों विना नाङ्गं, विनाङ्गन मुखं कुतः। मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ?॥१॥ अनु०-धर्म अने अधर्म विना शरीर नथी, शरीर विना मुख नथी, अने मुख विना वक्तृत्व नथी; तो पछी धर्माधर्म अने शरीरादिथी रहित अन्य देवो शास्ता-उपदेशदाता केवी रीते घटे ? (१) अन्यदप्यसङ्गतं तेषु बह्विति दर्शयन्ति अव०-धर्मा० धर्माधौं पुण्यपापे विनाङ्गं शरीरं न स्यात् , अङ्गेन विना मुखं कुतः स्यात् ?, न स्यादेव; मुखाद्विना न वक्तृत्वं स्यात्तत्तस्मात्कारणात्परे देवाः कथं शास्तार:शास्त्रकर्तारः-उपदेशदातारो वा ?, 'विना ते तृतीया च । इति सूत्रेण (२-२-११५) द्वितीयातृतीयापञ्चम्यः ॥१॥ वि०-हे विदितसमस्ततत्त्व ! भगवन् ! विमुक्तविपक्षविक्षे. पोऽहमपक्षपातेन स्वामिनं विज्ञपयामि, यदुतामी तावदास्तिकदर्शनिनः सर्वेऽपि दुर्मोच्यमपि गृहवासपाशमुच्छिद्य कुगतिपातभीरवः • परमपदाध्वनि स्वस्वागमप्रामाण्येन प्रवर्तन्ते । आगमश्चाप्तोक्तयः । ये च तैराप्तत्वेन प्रतिपन्नास्तेषामागमप्रणेतृत्वमनुपपन्नम् । कुतः ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy