________________
[ श्रीवीतरागस्तोत्रे
अव० - तिष्ठे० क्वचिद्वायुस्तिष्ठेत्स्थिरी भवेदद्रिद्रवेत् -द्रवतां श्रयति, जलमपि ज्वलेदग्निवद्दहति तथापि रागाद्यैग्रस्त आक्रान्त आप्तः - सम्यक् तत्त्वज्ञो भवितुं नार्हति । त्वां विनाऽन्यदेवेषु रागादिरहितदेवत्वं नास्तीति भावः ।। १२ ।। इति षष्ठप्रतिपक्षनिरासप्रकाशावचूर्णिः ।
८४
0
वि०-हे विश्वैकमित्र ! कियद्वा परगतातत्वचिन्ताचक्रारोपणेन स्वान्तःकरणमकरुणैरिव खेदनीयम् । यतः सम्यगुपलब्ध एवायं विनिश्चयो यदुत क्वचिदेशे काले वा अविसंवादिसद्गुरूपदेशस्वभ्यस्तशारीरमरुत्सञ्चारक्रमपरिपक्त्रिमाभ्यासस्य कस्यचिद्यो गिनः कुम्भनशक्त्या विद्यादिबलेन वा वायुः सततगतिरपि तिष्ठेत् निश्चलतामाकलयेत् । तथा तथाविधातिप्रबलवीर्यमहौषधप्रयोगात् स्वाराधितदेवतादिप्रभावाद्वा अद्विर्गिरिरपि द्रवेत् द्रवरूपतामापद्येत । तथा अचिन्त्यमहिममणिमन्त्रादिमाहात्म्यात्तीर्थमहिना वा कदाचि - ज्जलं सलिलमपि ज्वलेत् ज्वालामालाकुलमालोक्येत । तथाऽपि दुर्घटवर्गेऽस्मिन् घटितेऽपि रागाद्यै रागद्वेषमोहग्रस्तः स्वस्वरूपं त्याजितः प्राणी नाप्तो भवितुमर्हति उपायशतैरप्याप्तत्वं न भजते । इयमत्र भावना महाचलस्खलनादद्विद्रावणाज्जलज्वालनादपि रक्तद्विष्टमूढपूर्वकुमाहिताः सत्येऽप्याप्तवचने प्रत्याययितुं दुष्कराः । श्रूयते च " जिनैजैमिनिकणभक्षाक्षपादवन्दाक ( वेदान्ति ) कपिल सुरगुरुभिः जगदेकमतीकर्त्तुं न पार्यते वहतु किमनेनेति । "
I
इति श्रीवीतरागस्तोत्रे विपक्षनिरासषष्ठप्रकाशपदयोजना ||
१- बुद्ध ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org