________________
षष्टः प्रकाश: ]
अथ परदेवानां तद्भक्तानामपि मौढ्यं दर्शयन्ति
अव०-प्र० हे वीतराग !, तवास्यं वदनकमलं प्रसन्नमस्ति, दृशौ मध्यस्थे रागद्वेशविप्लुते स्तः, वचो वचनं लोकम्पृणं लोकप्रियमस्ति हितमत्यत्वात् । इत्यमुना प्रकारेण प्रीतिपदे प्रेमस्थानेऽपि त्वयि बाढमत्यर्थः मूढाः-परतीर्थिका उदासतेऽनादृतवन्तः ।। ११ ।।
वि०-हे स्वामिंस्तव तावत्सुकृतिनां नेत्रयोः प्रथमप्रियातिथिप्रतिममास्यमाननं प्रसन्नं कोपादिकेतुरहितम् , तथा दृशौ नीलोत्पलदलदीधैं लोचने मध्यस्थे अरक्तद्विष्टे । तथा पञ्चत्रिंशद्गुणोपेतं सर्व भाषापरिणतं समग्रसंशयहरं च तव वचोऽपि लोकम्पृणं भव्याङ्गभाजामन्तःकरणप्रीणनपटिष्ठम् इत्युक्तप्रकारेण प्रीतिपदे विश्वानन्ददायिनि प्राकृतजनवत्त्वय्यपि केचिदुदासते, यतो बाढमत्यर्थ तेनैव दृष्टिरागेण मूढा मोहितमनसः । यच्च तेषां भगवत्यौदासीन्यं तद्दिवाभीतानां भास्वददर्शनमिव तद्व्यतिरेकेण कस्यान्यस्य क्षति विधत्ते ?, अथवातिष्ठेद्वायुवेदद्रिद्धलेजलमपि क्वचित् । तथापि यस्तो रागाद्यैर्नाप्तो भवितुर्महति ॥१२॥ ___ अनु०-कदाच वायु स्थिर थई जाय, पर्वत गळी जाय अने जल जाज्वल्यमान बनी जाय, तो पण रागादिकथी ग्रस्त पुरुष आप्त थवाने योग्य नथी.(१२)
स्वहृदयनिर्णयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org