________________
[ श्रीवीतरागस्तोत्रे
यतो न खल्वमीषामसमञ्जसप्रवृत्तिः खायत्ता, किन्तु रागायत्ता । रागश्च त्रिविधः कामरागः स्नेहरागो दृष्टिरागश्च । तत्र दम्पत्योः परस्परं भावबन्धना प्रीतिः-कामरागः, अपत्यादिषु पित्रोरत्यन्तवत्सलता स्नेहरागः, अनादौ भवेऽभ्यावृत्त्याऽभ्यस्तेषु सौगतादिदर्शनेषु गाढाभिष्वङ्गो दृष्टिरागः । येनोन्मत्त करसेनेवान्तःपरिणतेन लेष्ठु. काष्ठादिषु कनकबुद्धिरिवातत्त्वेषु तत्त्वबुद्धिरुपजायते । तत्रादिमौ कामस्नेहरागौ अनित्यतैकत्वान्यत्वादिशुभभावनाभ्याससमुल्लसिताद्धतज्ञानगर्भवैराग्यबलविदलितममत्वैः पुम्भिरीषत्करनिवारणौ सुकरोच्छेदौ । अयं तु दृष्टिरागो यौक्तिकानेकहेतुदृष्टान्तविवेचिततत्त्वातत्त्वानां सतामपि मनसो दुरुच्छेदो दुर्निर्वास्यः । अत एव पापप्रवृत्यङ्गभूतत्वात् पापीयानेवंविधेन दृष्टिरागेण म्लेच्छकन्देनेव दुर्वासिते मनसि कथमर्हदुपदेशपरिमलः प्रतिष्ठताम् ।
ननु यदि तेषां दृष्टिरागेणान्तरिता विचारदृष्टिर्भगवतो वीतरागतादिरहस्यं न पश्यति तत्कि स्थूलार्थदर्शिनी चर्मदृष्टिरपि तदीयं बहिस्तत्त्वमात्रमपि न पश्यति येन ते तस्मिन्नुदासत इत्येतदेवाहप्रसन्नमास्यं मध्यस्थे, दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं, मूढास्त्वय्यप्युदासते ॥११॥
अनु०-प्रसन्नमुख, मध्यस्थ लोचन अने लोकप्रिय वचनने धारण करनारा एवा अत्यंत प्रीतिना स्थानरूप आपने विषे पण मूढ लोको उदासीनता धारण करे छे ! (११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org