________________
षष्ठः प्रकाशः ।
सदृशमुत्प्रेक्ष्य स्वचेतसैव संवाद्य, यथा-' एक एव हि भूतात्मा देहे देहे व्यवस्थित ' इत्यादि, तस्यैव च साधकं तद्विधमेव द्विव्यवयवादिकं मानं प्रमाणमुपकल्प्य, येथा-' एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादि, तेनैव च स्वमतिप्रत्ययेनोत्तानशिरसः साध्वस्माभिरेवेदं तत्त्वमुपलब्धमिति प्रमोदान्न स्वदेहे न च गेहे सम्मान्ति । केवलमसकलज्ञक्लप्तकदागमविमुग्धा गेहेनर्दिन एव ते, न तु चतुरङ्गवादविजयगर्जयशसः । यदि वा-~कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥१०॥ ___ अनु०-कामराग अने स्नेहरागर्नु निवारण सुकर
छे, किन्तु पापिष्ठ एवो दृष्टिराग सजन पुरुषोने पण दुरुच्छेद छे. (१०)
अव०-काम हेतुमाह-हे वीतराग! यतः कामरागः स्त्र्यादिविषयः, स्नेहरागः पुत्रादिविषयः, तौ ईषत्करनिवारणौ-सुखनिवायौँ । तु परं दृष्टिरागो मदीयमिदमितिलक्षण: पापीयान् क्लिष्टतरः सतामपि दुरुच्छेदः-कष्टपरिहार्यः॥१०॥
वि०-हे स्वामिन्नमी परदर्शनिनो मुधैवास्माभिरुपालभ्यन्ते,
1-२-'यथा' इत्यत आरभ्य इत्यादि' इतियावत् पाठी प्रथम मुद्रितपुस्तके न स्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org