________________
[ श्रीवीतरागस्तोत्रे
वि०- हे स्वामिन्नेवंविधान् देवान् चेतनो विशिष्ट चित्तचैतन्यवान् पुमान् निःश्रेयसकामः कः श्रयेत् ?, किं विशिष्टान् ?, नित्यमुक्तान् विशिष्टयमनियमप्राणायामतपः कष्टादिभिर्दुष्कर्म्मजालमनुन्मूल्यापि नित्यमुक्तान् स्वभावमुक्तस्वरूपान् इत्येकं तावद्दुर्घटम् । एवंविधा अपि यदि निरुपाधिमधुरा एव भवेयुस्तदा कियदपि घटेतापीत्याह- जगज्जन्मस्थेमक्षयकृतोद्यमान् जगतश्चराचरस्य जन्मस्थेमक्षयेषु सृष्टिपालनप्रलयेषु कृतोद्यमान् किलैकः कश्चिज्जगत्सृजत्यन्यः पालयत्यपरः संहरतीत्याद्याविष्कृतवैकृतान् । अतो यदि ते नित्यमुक्तास्तत्कथं जगज्जन्मादिविप्लवपराः, अथ जगत्कर्तृतादिकण्डूलमनसस्तर्हि नित्यमुक्ताः कथम् ?, मुक्ता ह्येकस्वभावास्तेषां च यथाक्रमं रजः सत्त्वतमोगुणोल्बणोदयानां जगतः सर्गस्थितिसंह - तिप्रयतत्वेन सुव्यक्तैव भिन्नस्वभावतेति यत्किञ्चिदेतत् । यथा च जगत्कर्तुत्वाद्यप्रामाणिकं तथा सर्वं जगत्कर्तुत्वनिरासस्तवे पुरस्ताद्विस्तरतो व्याख्यास्यते । अत एव वन्ध्यास्तनन्धयप्रायान् सर्वथैवायौक्तिकत्वेन वन्ध्यासुतोपमान्, साभिप्रायं च स्तनन्धयपदोपादानम्, यतो वन्ध्यानां पालितकादिपुत्रसद्भावेऽपि स्तनन्धयत्व - मनुपपन्नम् । एवंविधांश्च देवाभासान् सचेतनः क इव भजेन्न कोऽपीतिभावः ।
ये तु मोहोपहतमतित्वेन तानपि देवान् प्रतिपद्य तदन्या
७८
"
१- साभिप्रायं च ' इत्यत आरभ्य
इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
6
·
स्तन्धयत्वमनुपपन्नम् '
For Private & Personal Use Only
www.jainelibrary.org