________________
षष्ठः प्रकाशः ] निहवनेन च कृतमौना एव तिष्ठन्ति तेऽपि वरम् । परं तदपि दुर्धियो न विदधतीत्याहकृतार्था जठरोपस्थ,-दुःस्थितैरपि दैवतैः । भवादृशानिनुवते, हा हा ! देवास्तिकाः परे ॥८॥ ___ अनु०-जठर-उदर अने उपस्थ-इन्द्रियवर्गथी विडम्बित थयेला देवोथी कृतकृत्य बनेला अन्य देवास्तिको-अमे देवने माननारा छीए एवी बुद्धि धारण करनारा कुतीर्थिको-आपना जेवानो अपलाप करे छे, ए खरेखर अत्यंत दुःखनो विषय छे. (८)
अथ श्लोकद्वयेन तद्भक्तस्वरूपमाह
अव०-कृता० हे वीतराग ! जठरमुदरमुपस्थ इन्द्रियवर्गस्ताभ्यां दुःस्थितैर्विह्वलैरपि दैवतैः कृतार्थाः कृतार्थमन्या अज्ञा जना भवादृशान् त्वत्सदृशान् गुणैरुत्कृष्टान् निनुवतेऽपलपन्ति । हा हा इति खेदे, परे द्विजादयो देवास्तिका देवविषयास्तावन्त इत्युपहासः ॥ ८॥
वि०-हे भगवन् ! परे कुमतग्लपितत्त्वधियो जठरोपस्थदुःस्थितैरनर्गलरसनस्पर्शनादीन्द्रियविकारविडम्बितैरपि दैवतैः कृतार्थाः कृतकृत्यमात्मानं मन्यमाना, हा हा इति खेदे, भवादृशान् समूलोन्मूलितसकलेन्द्रियविकारमूलबीजमहामोहानत एव चिदानन्दरूपे परमे ब्रह्मणि विलीनानपि निनुवते, न किञ्चिदमीभिरिति सोत्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org