________________
षष्ठः प्रकाशः ] बीजं कांई बोलवालायक नथी अने आपनी उपासनाथी अधिक बीजं कांई करवालायक नथी. (५) ___ अथ कवयः संसाररूपैकस्थानस्थितत्वेऽप्यात्मनातेभ्यः पृथक्त्वं दर्शयन्ति
अव०-त्वां प्र. हे वीतराग ! वयं त्वां नाथं योगक्षेमकरं प्रपद्यामहे-स्वीकुर्मः वयं त्वां स्तुमः, वयं त्वामुपास्महे-सेवामहे, यतस्त्वत्तोऽपरोऽन्यः न त्राता न रक्षकः । तव स्तवादपरं किम्ब्रूमः ? स्तुतिमात्रफलत्वाद्वचनस्य, तव सेवनादपरं किमु कुर्महे सृजामः, परिचर्यामात्रफलत्वान्नृजन्मः, अपरमित्यर्थव शाद्विभक्तिलिङ्ग(वि)परिणामोक्तिर्द्वयेऽपि ॥५॥
वि०-अत्राद्यपदत्रयमुत्तरपदत्रयेण यथाक्रमं योज्यम् । तथाहिहे विश्ववत्सल ! यत एतदेवमतो वयमान्तरारातिपरित्रस्तास्त्वामेव यथार्थ नाथं प्रपद्यामहे शरणमिति शेषः । यस्मादस्मिन् जगति अस्माद्भयात्त्वदपरः कोऽपि न परित्राता इत्युत्तरेण योगः । तथा त्वामेव समस्तस्तुत्यगणागण्यमन्वर्थाभिः स्तुतिभिः स्तुमः । अत एव तव स्तवादधिकं किमन्यद् ब्रूमस्तन्मात्रफलत्वाद्वाग्मित्वस्य । तथा त्वामेव विश्वोपास्यैरपि सरभसमुपास्यं वयमुपास्महे । अत एव सकलसत्कर्ममौलिभूतत्वात्त्वदुपासनस्यैतद्व्यतिरिक्तं किमन्यत् कुमहे । कृतेऽस्मिन् कृतान्येव निखिलान्यपि सत्कर्माणि । अत्र च शरणार्थितावकोपासकानां बहुत्वात्तदुक्तौ बहुवचनम् । भगवतस्त्वद्वितीयत्वेन त्वामित्येकवचनं स्तुतिकर्तुनौचितीं मुञ्चति । एवमन्यत्राऽपि द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org