________________
७३
षष्टः प्रकाश: ] विरक्तस्तदा नूनं न विपक्षः, किन्तु वीतरागत्वेन स त्वमेव । अथ रागावांस्तथाप्यवीतरागत्वेनैव त्वत्तोऽत्यन्तविसदृशत्वान्न विपक्षः । समानशीलपराक्रमयोरेव प्रायः सपक्षविपक्षतोपपत्तेः । अथ दृष्टान्तमाह-विपक्षः किं खद्योतो द्युतिमालिनः ?, खद्योतः-कीटविशेषो, द्युतिमालिनः-सहस्रभानोः किं कचिद्देशे काले वा विपक्षो भवेत् ? । एवं यथा ज्योतिरिङ्गणस्य गभस्तिमालिना तुला दुर्लभा, तथा सरागस्य वीतरागेणेतिभावः ।
ननु योगोपनिषन्निषेवणाद्भगवतस्तावदेवं महिमा ततस्तदभ्यसनेन परेऽपि तथा भविष्यन्तीत्याशङ्कयाह---- स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः। योगमुद्रादरिद्राणां, परेषां तत्कथैव का ? ॥४॥
अनु०-आपना योगनी स्पृहा लवसत्तम-अनुत्तरविमानवासी देवो पण करे छे. योगनी मुद्रावडे पण रहित एवा परदर्शनीओने विषे ते योगनी कथा-वार्ता पण शानी होय ?, न ज होय. (४)
अव०-स्पृह हे वीतराग ! त्वद्योगाय तव मार्गाय तेऽपि लवसत्तमाः सप्तलवमानायुरभावेनानुत्तरगता अपि देवा अपि स्पृहयन्ति-वाञ्छन्ति । त्वत्तो योगमुद्रादरिद्राणांबाह्यरजोहरणमुखपोतादियतनोपकरविकलानां परेषां साङ्ख्या
१-खद्योतस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org