________________
षष्ठः प्रकाशः ]
७१ अनु०-आपने पण पति-पक्ष-दुश्मन छे अने ते पण कोपादिथी व्याप्त छे. आ जातिनी किं वदन्ती-कुत्सित वार्ता सांभळीने विवेकी पुरुषो शुं प्राण धारण करी शके ?, न ज करी शके. (२)
अव०-तवा० हे वीतराग! तवापि निष्कारणनिखिलवत्सलस्यापि प्रतिपक्षो रिपुरस्ति, सोऽपि प्रतिपक्षः कोपादिभिः क्रोधादिभिर्विप्लुतो व्याप्तः । अनया किं वदन्त्यापि वार्तयापि किमिति पृच्छायां विवेकिनो ज्ञातारो जीवन्ति ? अपि तु न, अश्रव्यश्रवणात् प्राणत्यागोऽपि वरम् ।। २ ॥
वि०-परमकारुणिकत्वेन वीतरागकत्वेन सर्वज्ञत्वेन परमाहन्त्यसम्पदुद्भासितत्वेन च जगद्विलक्षणस्य तवापि किं कोऽपि प्रतिपक्षोऽस्ति ? । अपि तु सर्वथैवानुपपन्नः । कदाचित्त्वद्विध एव स्यादित्याह-सोऽपि त्वद्विपक्षतया स्थितोऽपि कोपादिभिः क्रोधकामलोभादिभिः प्राकृतजनेभ्योऽप्यतितरां विप्लवमस्वास्थ्यमापादितः । अस्य चार्थस्य साक्षात्करणं तावद् दूरत एव, किन्त्वनया त्वद्विपक्षास्तित्वप्रतिबद्ध्या किं वदन्त्यापि विमूढलोकोक्यापि विवेकिनस्तव त्वदितरदेवानां च पृथग्भावज्ञाः किं कदापि जीवन्ति ? । किमुक्तं भवति-किल तथाविधसामग्रीवैकल्यादेवमसमञ्जसप्रलापिनो यदि निग्रहीतुमशक्तास्तत्कि स्वायत्तान् प्राणानपि ते मोक्तुं न क्षमाः!,
१ अथ च' इत्यत आरभ्य 'प्राणन्ति' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org