________________
। श्रीवीतरागस्तोत्रे
सपणोद्घोषणम् । किं तेन ?, अनिर्वाच्यं किश्चिन्नरकादि प्राप्स्यन्तीत्यर्थः ॥१॥
वि०-हे जगदानन्दकन्द ! भगवंस्त्वयि लावण्यपुण्यवपुषि निरुपाधिमधुरनिसर्गलवणिमगुणपवित्रगाने तत एव नेत्रामृताञ्जने सकललोकलोचनामृतवर्तिप्रतिमे । यत् कैश्चिदनभिगृहीतमिथ्यात्वमुकुलितविशेषविचारैर्माध्यस्थ्यमितरदेवसाधारणा देवबुद्धिर्धियते । तदपि तावत्त्वद्गुणज्ञानां दृष्टं श्रुतं च महते दौःस्थ्याय मनःखेदाय जायते । यत्तु तेभ्योऽप्यतिमूदैः कैश्चित्त्वय्यपि विश्वजनीने द्वेषविप्लवो मत्सरोपप्लवः प्रतन्यते स त्वदशेषविशेष विदुषां सुतरामरुन्तुदः । यदि वा त्वयि पूर्वोपवर्णितस्वरूपे ये किलानभिगृहीतमिथ्यात्वोन्मथितसदसद्विवेका माध्यस्थ्यमौदासीन्यमाकलयन्ति तेषां त्वय्यौदासीन्यधारणमेव तावद् दौःस्थ्याय महतेऽनर्थाय । द्वेषविप्लवोपप्लुतत्वं त्वनन्तभवभ्रमणहेतुत्वेन सुतरां दौःस्थ्यनिबन्धनमितिभावः । ___ एवं तावत्त्वयि द्वेषोपप्लवोऽपि जघन्यः । केचित्तु तद्वशादेव सकलजनसामान्यव्यवहृतीनपि देवाँस्त्वत्प्रतिपक्षतया तुलयन्तीत्यतः स्तुतिकृत्तदुद्देशेन साक्षेपमाहतवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः। अनया किंवदन्त्याऽपि, किं जीवन्ति विवकिनः॥२॥
१ 'यदि वा' इत्यत आरभ्य ‘दौःस्थ्यनिबन्धनम्' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org