________________
भूमिका
योगशास्त्रे (प्र० २, श्लो० ८१ ) ' विध्यापयितुं' रूपं विद्यते, तथाहि
"स्त्रीसम्भोगेन यः काम-ज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥"
अस्य स्वोपज्ञवृत्तौ १२२ तमे पत्रे ' विध्यापयितुं - शमयितुम्' इत्युलेखः । श्रीअमरचन्द्रसूरिभिश्चतुर्विंशतिजिनेन्द्रसङ्क्षिप्तचरितेषु श्रीशान्तिनाथचरिते 'विध्यापितः' इति पदं प्रायचि । तच्च स्थलमेवम् -
" रयात् नराज्ञयाऽसाभ्या - मावाभ्यां त्वच्चिताऽनलः । विध्यापितोऽयं विधिवत् पयोभिरभिमन्त्रितैः ॥ ७८ ॥”
"
मलधारीयश्रीदेवप्रभसूरिभिरेतद्धातुमयः प्रयोगोऽकारि पाण्डवचरित्रे निम्नलिखित
स्थानेषु यथाहि
३३
“स्वकीयैरिव विध्याय - मानाः शोकाश्रुवारिभिः ।
धूमायमानाः सोऽपश्यत्, कोटिशो रचिताश्रिताः ॥ " - ( स. ५, श्लो. २८४ ) "लोकः शोकाकुलः कामं, तं कृशानुं कृशेतरम् ।
वेगाद् विध्यापयामास, बाष्पद्विगुणितैर्जलैः ॥” – ( स. ८, श्लो. ६० ) किञ्च श्रीहेमविजयप्रणीतायां कल्याणमन्दिरटीकायां समस्ति निर्देशोऽयम्
'ध्यै चिन्तायां ' धातुर्विपूर्वः 'सन्ध्यक्षराणामा' ( सारखते सु. ८०३ ) धातोः प्रेरणे त्रिप्रत्ययः 'रातो जो पुकू' (सा० सू० १०३७) अतीते क्तप्रत्ययः विध्यापिताः, निर्वाणं प्रापिता इति ।"
ध्यैधातोः ध्यापयति प्रेरकरूपं निरदेशि क्रियारत्नसमुच्चये अजैनैः श्रीयुतविद्यानन्दैरपि निजे कृतिकलापे । तत्र ( अ. २, श्लो. ६३ ) प्रोक्तम्
“निर्वाति च विध्यायति चेत्यचिर्नाशे"
अनेन किं न सिध्यति ध्यैधातोर्व्युपसर्गपूर्वकस्य प्रयोगस्य समीचीनत्वं जैनाजैनग्रन्थेषु आदरणीयत्वं च ? |
अष्टाविंशे पद्ये चतुर्थे चरणे 'त्वत्सङ्गमे' इति सप्तम्यन्तः प्रयोगो नौचित्यं वहतीति यकोबीमहोदयानां मतम् । तैस्तत्स्थाने त्वत्सङ्गमादिति सूच्यते परन्तु तन्मतग्रहणे न किमपि कारणं वर्तते; यतः त्वत्सङ्गमे संति सुमनसः परत्र अपरत्र वा न रमन्ते इति वाक्यरचना समीचीना, अर्थ वैशिष्ट्य विशिष्टा टीकाकाराभिमता च ।
१ इदं पदमध्याहृतं ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org