________________
भक्तामरस्तोत्रस्य "अमुं पुरः पश्यसि देवदारु, पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां, स्कन्दस्य मातुः पयसां रसज्ञः ॥ ३६॥ कण्डूयमानेन कटं कदाचित् , वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनमनेस्तनया शुशोच, सेनान्यमालीढमिवासुरास्त्रैः ॥ ३७॥" अस्य महाकाव्यस्य षष्ठे सर्गे च
"अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत् कुमारी । नासौ न काम्यो न च वेद सम्यग् , द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥३०॥" "असौ महाकालनिकेतनस्य, वसन्नदूरे किल चन्द्रमौलेः।
तमिस्रपक्षेऽपि सह प्रियाभि-र्योत्स्नावतो निर्विशति प्रदोषान् ॥ ३४ ॥" नैषधीयचरितस्य (स. १३, श्लो० ३१ ) श्रीनारायणरचितायां नैपधीयप्रकाशाख्यायां व्याख्यायां (पृ. ५०५) निम्नलिखितोल्लेखावलोकनमपि प्रासङ्गिकम्
"तस्मादमुत्र नले भवतीरता नेति न युक्तम्" एवं सति 'अमुत्र' शब्दस्य अस्मिन्नर्थे प्रयोगो न तिरस्करणीयो धीधनैः। 'अमुत्र'शब्दस्य अमुप्मिन्नसिन्नर्थे प्रयोगः समीचीनः प्रतिभाति ।
'विध्यापिताः'प्रयोगस्य परामर्श:'इन्ध्'धातोयुपसर्गपूर्वकस्य 'विज्झाइ' इति रूपं भवति ( अवलोक्यतां हमैप्राकृतव्याकरणस्य अष्टमाध्यायस्य द्वितीयपादस्य अष्टाविंशतितमं सूत्रम् ) । 'विझवइ' इति प्रेरकरूपम् । अस्य संस्कृतभाषायां परावर्तने सति 'विध्यापयति' इति रूपं भवतीतिकेचित् । हैमप्राकृतपुरस्सरसूचिता पूर्वोक्ता शब्दोत्पत्तिर्न केवलं संस्कृतसाहित्ये दुर्लभा, किन्तु साऽघटिताऽस्मिन् प्रकरणेऽर्थापेक्षया। समीचीना तु शब्दोत्पत्तियुपसर्गपूर्वकस्य ध्यैधातोर्विद्यते। 'विध्यापयति'रूपं एतन्मूलो. गतान्यपराणि रूपाणि च बहुधा प्रयुक्तानि जैनग्रन्थकारैः, किन्तु क्वचिदेवाजैनसंस्कृतलेखकैः । अपरश्च 'विध्यापिताः' इति रूपं न शुभं संस्कृतम् । एतत्कल्पनायाः सत्यताऽसत्यतापरीक्षणविचक्षणैरवतार्यतां मीमांसाभूमि मदीयमिदं नम्र निवेदनम्__श्रीजिनभद्रगणिक्षमाश्रमणैर्भाष्यपीयूषपयोधिभिर्विरचिते श्रीविशेषावश्यकभाष्ये प्रायुञ्जि 'विज्झाइ'रूपं निम्नलिखितायां गाथायाम्
"दावानलो व्व कथइ लग्गइ विज्झाइ समयमन्नंतो।
तह कोइ ओहिदेसो से जायइ नासए विईओ ॥ ७५१॥" एतद्वृत्तिकारैर्मलधारीयश्रीहेमचन्द्रसूरिभिः प्रोक्तं (पृ. ३६१)
"दग्धशुष्कतृणादिके विध्यायति-निर्वाति" "किं ते तथा मतिरमुष्य यथाऽऽशयः स्यात् , त्वत्पाणिपीडनविनिर्मितयेऽनपाशः । कान मानवानवति नो भुवनं चरिष्णून-नासावमुत्र न रता भवतीति युक्तम् ॥" .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org