________________
भूमिका
श्रीकल्याणमन्दिरस्तोत्रगवेषणा चतुश्चत्वारिंशत्पद्यात्मकस त्रयोविंशजिनेश्वरश्रीपार्श्वनाथस्तुतिरूपस्य श्रीकल्याणमन्दिरस्तोत्रस्य प्रान्तं पद्यमायोच्छन्दसि निवद्धम् , अपराणि तु वसन्ततिलकायां विरचितानि । यथा भक्तामरस्तोत्रं श्वेताम्बरैदिगम्बरैश्च सौवसौवकृतिरूपेण स्वीक्रियते, तथेदं स्तोत्रमपि ।
अमुत्रशब्दार्थ:कल्याणमन्दिरस्तोत्रस्य त्रयोदशे पद्ये 'अमुत्र'शब्दस्य असिन्नर्थे यः प्रयोगोऽकारि कविवरैः सोऽनुचित इति केचित् । अभिधानचिन्तामणी (का. ६, श्लो० १६४) अमरकोशेऽपि 'प्रेत्यामुत्र भवान्तरे' इति पतथवलोकनेन 'अमुत्र'शब्दो भवान्तरवाची ज्ञायते, न तु ऐहिकवाची । परन्तु एम्. ए. एल्. एल. बी. इत्युपपदविभूषितलक्ष्मणरामचन्द्रवैद्येतिनामधेयकृते संस्कृतामलकोशे 'अमुत्र'शब्दस्य दृश्यतेऽर्थत्रयम् । तत्राग्रिमोऽर्थ इहेति, तत्समर्थनार्थ दृष्टान्ती. भूता पतिश्च यथा-"अनेनैवार्भकाः सर्वे नगरेऽमुत्र भक्षिताः।" समर्थ्यतेऽयमर्थः श्रीविनयचन्द्रसूरिकृतश्रीमल्लिनाथमहाकाव्यस्य प्रथमे सर्गे निम्नलिखितपद्येन
"असारेऽमत्र संसारे, सर्वमेव विरागकत।
विशेषतोऽपि चासाक-मिदं वैराग्यकारणम् ॥ २८ ॥" श्रीहेमविजयगणिकृते पार्श्वनाथचरित्रे (स. ५, श्लो. ३३२ ) प्रयोग एवंविधार्थकः
"ततोऽमुत्र परत्रापि, हिताय विहिताहितम् ।
अमुमेव श्रये श्रेयः-शरणं शरणं विभुम् ॥" अध्यात्मकल्पद्रुमे देवगुरुत्वशुद्ध्यधिकारे १७२तमे पद्ये ऐहिकवाची अमुत्रशब्दो वर्तते, यथा
"भत्त्यैव नार्चसि जिनं सुगुरोश्च धर्म, नाकर्णयस्यविरतं विरतीने धत्से ।
सार्थ निरर्थमपि च प्रचिनोस्यघानि, मूल्येन केन तदमुत्र समीहसे शम् ? ॥" खोपज्ञहैमबृहवृत्तौ (पृ० १३७) उल्लेखश्चायम्___ "न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित् कश्चिदाह व भवान् उपितः ? स आह अमुत्रावात्समिति । राज्यन्तयामे तु मुहूर्तमपि स्वापे यस्तन्येव अमुत्राऽवसमिति ।" अपरश्च संस्कृतज्ञानां सुपरिचितमिदं पद्यम्
"इदमस्तु सनिकृष्टं समीपतरवर्ति चैतदो रूपम् ।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥" अनेन सूच्यते इदमदसोः प्रायः समानता । अत एव दृश्यन्ते प्रयोगा अप्येवं विधा महाकाव्येषु । यथाहि रघुवंशे द्वितीये सर्गे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org