SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३० भक्तामर स्तोत्रस्य ७ दानप्रकाशः ८४० श्लोकप्रमाणकः १६५६ तमे प्रमिते वर्षे प्रणीतः । ८ रोहिणीकथा २०० लोकप्रमाणात्मिका ३ १६५७तमेऽन्दे रचिता । ९ दीपालिकाकल्प: ( प्राकृतभाषायाम् ) । १० विशाल लोचनस्तोत्रवृत्तिः । ११ सकलाईचैत्यवन्दनवृत्तिः । १२ 'लातस्याः स्तुतिवृत्तिः । १३ 'देवाः प्रभो' स्तोत्रवृत्तिः । १४ वरदत्तगुणमञ्जरीबावनी । १५ गोडीपार्श्वनाथ च्छन्दः । १६ साधारणजिनस्तवनवृत्तिः । १ अयं ग्रन्थः प्रकाशितः पण्डितहीरालालैः । तदन्ते उल्लेखोऽयम् " इति श्रीतपागच्छनायक श्री विजयसेन सूरीश्वरशिष्य श्री सोमकुशल गणिशिष्यपण्डितश्री कनककुशल गणि विरचिते दानप्रकाशे...। श्रीमत् 'तपा' गणनभोऽङ्गणपद्मबन्धु-भीग्यादकब्बर महीरमणादवाप्ताम् । ख्यातिं जगद्गुरुरिति प्रथितां दधानः, सश्रीकहीरविजयाभिधसूरिरासीत् ॥ १ ॥ तत्पट्टे वरगुणमणि- गणरोहणभूधरा धरापीठे । साम्प्रतमद्भुतयशसो, विजयन्ते विजयसेनसूरिवराः ॥ २ ॥ Jain Education International वाचकचूडामणयः, श्रीमन्तः शान्तिचन्द्रनामानः । विद्यागुरवो विबुधा, विजयन्तां कमलविजयाश्च ॥ ३ ॥ एषां श्रीसुगुरूणां प्रसादतः कायबाणरसचन्द्रः ( १६५६ ) । प्रमिते वर्षे रचितो ग्रन्थोऽयं कनककुशलेन ॥ ४ ॥” २ इयं श्रीरोहिणी तपोमाहात्म्यविषयिका रोहिण्यशोकचन्द्रकथा प्राकाश्यं नीता पण्डित श्री हीरालालैः । ३ " श्रीमत्तपगणगगना-ङ्गणदिनमणि विजय सेनसूरीणाम् । शिष्याणुना कथेयं विनिर्मिता कनककुशलेन ॥ १ ॥ श्रीशान्तिचन्द्रवाचक- विद्यागुरुमादरात् प्रणम्य मया । हयभूतरसेन्दु ( १६५७) मिते वर्षे दीपोत्सवे लिलेखे ॥ २ ॥ " ४ कस्याञ्चित् प्रतावुलेखो यथा “श्रीमत्तपगणगगनाङ्गणदिनमणिविजय सेनसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥ सं. १७४५ वर्षे मा. व. ८ ।" For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy