SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भूमिका श्रीकनककुशलगणीनां परिचितिः श्रीमन्तः कनककुशलगणयः कदा कतमं मेदिनीमण्डलं मण्डयामासुरिति जिज्ञासायां जातायामुच्यते इमे पण्डिताः श्री'तपागच्छगगनदिनमणिजगद्गुरुविरुद विख्यातश्रीहीरविजयसूरीशशिष्यश्रीविजयसेनसूरिराजशिष्यश्रीसोमकुशलगणीनां विनेयाः । श्रीमन्तः शान्तिचन्द्रवाचका एतेषां विद्यागुरवो वैक्रमीयसप्तदशशतकं स्वसत्तया समलश्चक्रुः । एभिर्महाशयः के के ग्रन्था गुम्फिता इति प्रश्नसमाधानार्थ विलोक्यतामिदमेव पृष्ठम् । तदर्शनेनेदमपि स्पष्टीभविष्यति यदुतैभिः श्रीविक्रमार्कात् १६५२तमे प्रमिते वर्षे काव्यपञ्चकस्य वृत्तिय॑धायि । तत्पूर्व प्रायस्तैने कोऽपि स्वतत्रग्रन्थो व्यरचि । एवं सति वृत्तिकाररूपेणैव प्रथमतः ख्याति प्रापुः । श्रीकनककुशलगणीनां कृतिकलापः १ श्रीजिनप्रभसूरिकृतचतुर्विंशतिजिनस्तोत्रवृत्तिः ५०१श्लोकप्रमाणिका १६५२तमे च वर्षे प्रणीता। २ श्रीमानतुङ्गसरिकृतभक्तामरस्तोत्रवृत्तिः १६५२तमे वर्षे प्रणीता । ३ श्रीसिद्धसेनदिवाकरकृतकल्याणमन्दिरस्तोत्रवृत्तिः ६००श्लोकप्रमाणगता १६५२तमे वर्षे च प्रणीता। ४ पञ्चमीपर्वस्तुतिवृत्तिः १६५२तमे वर्षे रचिता । ५ श्रीजिनप्रभसूरिकृतस्य 'ऋषभनम्र स्तोत्रस्य १६५२ तमेऽब्दे रचिता वृत्तिः। ६ ज्ञानपञ्चमीकथा १५०श्लोकमिता १६५५तमे वर्षे च प्रणीता । १ प्रान्तस्थ उल्लेखश्वायम् "श्रीविजयसेनसूरिप्रसादतो नयनबाणरसचन्द्रः ( ५६५२)। प्रमिते वर्षे भवेद् रचिता वृत्तिरियं कनककुशलेन ॥ १॥" २ एतस्याः प्रशस्तिरेवम् "श्रीमत्तपागगनभोऽङ्गणपद्मबन्धु-भाग्यादकब्बरमहीरमणादवाप्ताम् । ख्याति जगद्गुरुरिति प्रथितां दधानः, सश्रीकहीरविजयाभिधसूरिरासीत् ॥१॥ तत्पट्टे वरगुणमणि-गरोहणभूधरा धरापीठे । सम्प्रति ह्यद्भुतयशसो विजयन्ते विजयसेनसूरिवराः ॥ २ ॥ वाचकचूडामणयः, श्रीमन्तः शान्तिचन्द्रनामानः। विद्यागुरवो विबुधा, विजयन्तां कमलविजयाश्च ॥३॥ एषां श्रीसुगुरूणां, प्रसादतो नयनबाणरसचन्द्रैः (१६५२)। प्रमिते वर्षे रचिता, वृत्तिरियं कनककुशलेन ॥ ४ ॥ प्रत्यक्षरगणनया, वृत्तौ सङ्ख्या चतुःशती । सप्तपञ्चाशता श्लोकै-रधिका समजायत ॥ ५॥" भ.9 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy