________________
भक्तामरस्तोत्रस्य भवन्तो वाचकाः श्रीविजयप्रभसरिसकाशात् लब्धवाचकपदाः श्रीमेरुविजयादीनां गुरवः । अत्र श्रीशान्तिनाथचरित्रप्रान्तस्थप्रशस्तिः प्रमाणम् ।' तत्रोक्तम्
"तदनु गणधराली पूर्वदिग्भानुमाली
विजयपदमपूर्व हीरपूर्व दधानः ॥ कनकविजयशर्माऽस्यान्तिपत् प्रौढधर्मा
शुचितरवरशीलः शीलनामा तदीयः । कमलविजयधीरः सिद्धिसंसिद्धितीर
स्तदनुज इह रेजे वाचकश्रीशरीरः॥ चारित्रशब्दाद् विजयाभिधान-स्वयी सगर्भाधृतशीलधर्मा । एषां विनेयाः कवयः कृपाद्याः, पद्यास्वरूपाः समयाम्बुराशौ ॥ तंत्पादाम्बुजभृङ्गमेघविजयः प्राप्तस्फुरद्वाचक
ख्यातिः श्रीविजयप्रभाख्यभगवत्सरे स्तपागच्छपात् । नुन्नोऽयं निजमेरुपूर्वविजयप्राज्ञादिशिष्यैरिमां
चक्रे निर्मलनैषधीयवचनैः श्रीशान्तिचक्रिस्तुतिम् ॥" महोपाध्यायश्रीमेघविजयगणीनां कृतयः
१ युक्तिप्रबोधः स्वोपज्ञवृत्तिसमेतः ५०००श्लोकप्रमितः।
१ एतस्समर्थने मेघमहोदयप्रशस्तिगत उलेखोऽयमपि हेतुः
"मेरोर्विजयकृद्धैर्या-दलद्ध्यो मेरुवद् धिया।
___ भक्त्या मे रोचितः शिष्यः, श्रीमेरुविजयः कविः॥ १०४ ॥" २ इदं दृढीभवति मेघमहोदयप्रशस्तिगतनिम्नलिखितपद्यावलोकनेन
"तच्छासने जयति विश्वविभासनेऽभूद्, विद्वान् कृपादिविजयो दिविजन्मसेव्यः ।
शिष्योऽस्य मेघविजयायवाचकोऽसौ, ग्रन्थः कृतः सुकृतलाभकृतेऽत्र तेन ॥ १०॥" ३ प्राकाश्यमानोऽयं ग्रन्थः श्रीऋषभदासजीकेसरीमलजी संस्थया । एतस्प्रान्तस्थानि पद्यानि यथा
"चतुःसहस्री श्लोकानां, शतत्रयसमन्विता। प्रमाणमस्य ग्रन्थस्य, निर्मितं तत् कृता स्वयम् ॥८॥ श्री'तपा'गण विभुर्भुवि भूयः कीर्तिपूर्तिधवलीकृतलोकः । सूरिरानतसुरासुरदेवः प्रोल्ललास विजयादिमदेवः॥९॥ सरपट्टपूर्वाचलचित्रभानु-१दिवादेन्धनचित्रभानुः । जेजीयते श्रीविजयप्रभातः, सूरिः स्वबुद्ध्या जितदेवसूरिः ॥ १० ॥ तत्पभूषामहसाऽतिपूषा, सुवर्णनैर्मल्यविधानभूषा । विराजते श्रीविजयादिरत्नः, प्रभुः प्रभाध्यापितदेवरवः ॥११॥ तेषां राज्ये मुदाऽकारि, वामयं युक्तिबोधनम् । मेघविजयसब्जेन, वाचकेन तपस्विना ॥ १२ ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org