SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २३ भूमिका श्रीगुणाकरसूरयः गुणसुन्दरेत्यपरनामधेया इति प्रतिभाति Bombay Branch of the Royal Asiatic Society सत्कभाण्डागारस्य भक्तामरस्तोत्रवृत्तिप्रतो प्रशस्तिगतप्रथमपद्यप्रान्ते निम्नलिखितोल्लेखप्रेक्षणात् "नवाङ्गवृत्तिकारकश्रीअभयदेवसरिसन्तानीयश्रीगुणचन्द्रसूरिशिष्योपाध्यायगुणसुन्दरविरचिता श्रीयुगादिदेवस्तवविवृतिः समाप्ता। यद् गदितमर्थकूटं यल्लक्षणशब्दतश्च दुष्टमिति हि । तत् साधुभिः सुधीभिः शोध्यं सद्यः प्रसद्य मयि ॥१॥ ग्रन्थाग्रं १५७१ सकलाक्षरसङ्कलनयेति । श्रीहंसकीर्तिगणिनाग्लेखि श्री'खरतर' गच्छे श्रीजिनभद्रसूरिविजयराज्ये ।" एतदवसर्पिणीसञ्जाताधान्तिमतीर्थङ्करौ श्रीनाभेय-महावीरौ प्रणम्य श्रुतदेवतां च संस्तुत्य तीर्थङ्करपदाभिलाषिभिः (पृ. २७) श्रीगुणाकरसूरिभिः विवृतिः प्रारब्धा । तत्रादौ काव्योत्पत्तिरसूचि । अन्तेऽन्तिमपद्यस्य विविधा अर्था दर्शितास्तैः । वृद्धभोज-मयूर-तजामातृ-बाणसमसमयिनः श्रीमानदेवपट्टमौलयो भयहरभत्तिब्भरस्तवादिरचयितारश्च श्रीमानतुङ्गसूरिवरा इति तेषां मतम् । महोपाध्यायश्रीमेघविजयानां प्रस्तावः अध्यात्मकाव्यज्योतिर्निमित्तव्याकरणादिविषयकानां नेत्रामृताञ्जननिभानामनेकेषां ग्रन्थानां गुम्फितारो महामहोपाध्यायश्रीमेघविजयगणयः सम्राश्रीअकब्बरदत्तजगद्गुरुविरुदधारकबृहत्तपागच्छाधिपतिश्रीहीरविजयसूरीश्वरशिष्यसन्तानीयश्रीकृपाविजयविनेयाः । श्रीमन्तो १ वंशवृक्षः हीरविजयः कनकविजयः शीलविजयः कमलविजयः सिद्धि विजयः चारित्रविजयः कृपाविजयः मेघविजयः। २ अत्र देवानन्दाभ्युदयकाव्यप्रशस्तिगतं निम्नलिखितं पद्यमपि प्रमाणम् "तत्सेवासक्तचेता अनवरततया प्राप्तलक्ष्मीविशिष्य शिष्यः श्रीमत्कृपादेर्विजयपदभृतः सत्कवेवाचकश्रीः । मेघः पद्माप्रसादाद् विशदमतिजुषां श्राव्यकाव्यं चकार देवानन्दं सदैन्द्रोज्वलविपुलधिया शोध्यता शोध्यमत्र ॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy