________________
भक्तामरस्तोत्रस्य - उपदेशचिन्तामणिलेखकानामपि नामधेयं मानतुङ्गमिति गम्यते तत्प्रशस्तिगतैर्निम्नलिखितैः पद्यैः, किन्तु न चायं मुनिः प्रास्ताविकः, वैक्रमीयपश्चदशाब्द्यां तत्सत्तायाः।
"तेषां शिष्याः श्रीमन्मुनिशेखरसूरयो नयोपेताः । श्रीजयशेखरसूरिः श्रीसूरिमरुतुङ्गश्च ॥ १० ॥ एतेषु शिष्यः खलु मध्यमोऽहं, मोहं कुबोधप्रभवं विहाय । गुरूपदेशादुपदेशचिन्ता-मणिश्रुतं सूत्रतया व्यगुम्फम् ॥११॥ व्यधां च तस्य स्वयमव्यलीका, टीका कथासारविचारहृद्याम् । दण्डायुधाम्भोनिधिचन्द्र(१४३६ )सङ्ख्ये, वर्षे पुरे 'श्रीनृसमुद्र'नाम्नि ॥ १२ ॥
अनुजश्च सतीर्थ्यश्चा-स्माकं टीकामिमां मुदा। .
लिलेख प्रथमादर्श, मानतुङ्गगणिर्गुणी ॥ १३॥" ___ एवं सत्यां परिस्थित्यामनुमीयते यदुतेमे भक्तामरस्तोत्रकारः श्रीमानतुङ्गसूरयः काव्यानुशासनकतेसमयपूर्वगामिनः।
अपरश्च प्रभावकचरिते प्रबन्धचिन्तामणौ एतत्स्तोत्रटीकादौ एतेषां मयूर-बाणाभ्यां समानकालिकत्वं सूचितम् । परन्तु अस्य निरासः सविस्तरः कृतः केकनेबोसनामधेयैः डॉक्टरेत्युपाधिभूषितैर्मयूरशतकप्रस्तावनायाम् । एषां महाशयानां मते श्रीमानतुङ्ग सूरयः वैक्रमीयतृतीयशताब्दीमलचक्रुः ।
अस्मिन् प्रस्तावे "मानतुङ्गसूरिः तेन नागपुरे विक्रमतस्त्रिंशति वर्षे नेमिनाथप्रतिष्ठा कृता वीरात् ७७०" इत्युल्लेखोऽपि समीक्ष्यताम् । किञ्च तर्कयन्तु तार्किका डॉक्टरयकॉबिमहाशयमतं यदुत श्रीकल्याणमन्दिरस्तोत्रकारपूर्वगामिनो मानतुगासू रिवयोः।
भक्तामरटीकाकारपरिचयः- श्रीभक्तामरस्तोत्रस्य विविधविबुधवरैर्विरचिता व्याख्याः। तत्र श्रीगुणाकरसूरि-श्रीमेघविजयोपाध्याय-श्रीकनककुशलगणयः प्रसङ्गोपात्ताः, अतस्तेषां विषये यथासाधनं विचारः करिष्यते ।
तावद् गुणाकरनामधेयाः पञ्च मुनिवर्या अभूवन जैनशासनासक्ताः । ११७८तमे वर्षे सप्तक्षेत्री( दर्शनशुद्धिप्रकरणवृत्ति ? )रचयितार एके । विद्यासागरश्रेष्ठिकथाविधातारो द्वितीयाः । १२९६तमे वर्षे श्रीनागार्जुनकृतयोगरत्नमालाप्रणेतारः तृतीयाः । सम्यक्त्वकौमुदीगुम्फितारश्चतुर्थाः । १४२६तमे वर्षे भक्तामरवृत्तिविरचयितारः प्रासङ्गिकाः पंञ्चमे । एतेषां परिचितिः स्पष्टीभवति तत्कृतभक्तामरस्तोत्रवृत्तिप्रशस्तिपरामर्शेन ।
प्रबन्धचिन्तामणौ ग्रन्थकर्तृत्वविषये विशेषवक्तव्यतायामयमुल्लेखः कृतः श्रीदीनानाथतनुजैः रामचन्द्रा शास्त्रिभिः।
२ प्रेक्ष्यतां भूमिकायाः षोडशं पृष्ठम् । ३ इमे प्रथमा भक्तामरवृत्तिरचनासमयापेक्षया, विद्यार्थिसमुपकारकदृष्ट्यतु युक्तिरनाकर-तर्कभाषाटीका-ऽऽख्यातवादटीका-ऽनेकार्थसङ्ग्रहवृत्ति-सप्तपदा टीकादिग्रन्थगुम्फितारः श्रीभानचन्द्रविनेयाः श्रीसिद्धिचन्द्रा आद्याः, तस्कृतवृत्ती व्याकरणकोशादिपाठप्राचुर्यात् ।
श्रीमेघविजयपूर्ववर्तिभिर्मुनिवरैरपि भक्तामरटीका निरमायीत्यवगम्यते कश्चित्-कौशल्यां-कोशल्यामित्युल्लेखानां नवमसप्तदशद्वाविंशैकषष्टितमपृष्ठेष्ववलोकनात् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org