________________
भूमिका कृतागसां हि जन्तूना, क्षमायोग्यस्त्वमेव च । इति स्तोत्रशतैः स्तुत्वा, नृपः पादावनौ स्थितः ३४ ततो धर्मोपदेशेन, मानतुङ्गोदितेन हि । जिनधर्मकरो जातो, भोजः श्रावकसत्तमः ॥ ३५ ॥ धर्मप्रभावनामित्थं, संविधाय महीतले । ययौ देशान्तरं साधु-र्चनीयो नृपादिभिः ॥३६॥ ततो जिनालयास्तेन, राज्ञा संस्कारिताः पुरि। सुपात्रे ददते दानं, जिनबिम्बान्यनेकशः ॥ ३७॥ इदं भक्तामरस्तोत्रं, मानतुङ्गकृतं शुभम् । प्राप्नुवन्तीष्टसिद्धीस्ते, भावशुद्ध्या पठन्ति ये ॥३८॥ उत्पन्ने कारणं पूर्व, स्तोत्रस्य गदितं मया । अधुना प्रोच्यते सारं तन्माहात्म्यस्य वर्णनम् ॥३९॥"
श्रीमानतुङ्गसूरीणां कृतिततिःश्वेताम्बरसम्प्रदायानुसारेण-(१) नमिऊणस्तोत्रं प्राकृतभाषायां गुम्फितं जैनजगति पञ्चममरणरूपेण च प्रसिद्धम्, (२) श्रीभक्तामरस्तोत्रम्, (३) श्रीभत्तिब्भरस्तवः। सप्तदशशताब्दीयदैगम्बरीयपट्टावलीपुरस्सरं तु
(१) चिन्तामणिकल्पः, (२) मणिकल्पः, (३) चारित्रसारः, (४) उपसर्गहरस्तोत्रम् , (५) भक्तामरस्तोत्रम् ।
श्रीमानतुङ्गसूरीणां समयः
अनेकग्रन्थाप्रकटनादैतिहासिकसाधनानुपलब्धेर्धर्मान्धाजैनवर्गभसीभूतसाहित्याच्च दुःशका प्राचीनमहर्षिसमयनिर्णयः । तत्रापि यदा समाननामधारिणोऽन्येऽपि श्रुतिपथमवतरन्ति, तदा विशेषकष्टसाध्योऽयं प्रश्नो भवति । प्रथमं तावत् मानतुङ्गनामधारिणो मुनिवराः कति इति विचार्यते। एके 'जयन्तीप्रश्नोत्तरसङ्ग्रह'स्य सिद्धजयन्तीचरित्रापरनाम्नः प्रकरणस्य कर्तारः, द्वितीये 'परिग्रहप्रमाण'प्रणयितारः, तृतीये श्रीविक्रमात् १३३३तमे वर्षे श्रेयांसनाथचरित्ररचयितारः । आधेन्तिमे च भक्तामरस्तोत्रकर्तृभिभिन्ना इत्यवगम्यते, १३३४ तमवैक्रमार्कीयप्रभावकचरितान्तर्गतश्रीमानतुङ्गप्रबन्धस्य १६८तमपद्यावलोकनात् काव्यानुशासने (पृ. ६७) च भक्तामरस्य काव्यस्यैकादशस्यावतरणात् ।।
१ श्रीधर्मघोषसूरिभिः श्रीमेरुतुङ्गसूरिभिश्च रचित ऋषिमण्डलस्तवो भक्तिभरेत्यपरालः स भिन्नः । २ "गुणेषु रागः सुकृतेषु लाभः, रोषश्च दोषश्च भवश्व कामः ।
श्रीमानतुङ्गस्य तथापि धर्मः, श्रीवीतरागस्य स एव वेत्ति ॥" अनेन पनानुमीयते यदुत एतत्पद्यात्मकस्य ग्रन्थस्य कर्तृनाम मानतुङ्गेनीति श्रीविचक्षणविजयाः ।
३ भ्रान्तिजन्योऽयमुल्लेख इति मतं मे, यतः कृतिरियं श्रीमानतुङ्गसूरि शिष्यश्रीधर्मघोषसूरीणाम् । उक्तं च सत्रैव प्रान्तपये-"श्रीमानतुङ्गशिष्येण, धर्मघोषेण सूरिणा । रचितोऽनल्पकल्पोऽयं, चिन्तामणिजगत्प्रभोः ॥४५॥"
१-५अभिमोहमौ इति प्रतिभाति । ६ एतत्प्रणयितारः श्रीभद्रबाहुस्वामिन इति सुप्रसिद्धाश्वेताम्बरीया परम्परा। ७ अस्योपरि एतरिकव्यरखधीमलयप्रभमुनिवर्यय॑रचि वृत्तिः ६६००श्लोकप्रमाणिका १२६०तमे वैक्रमीयादे। ८ एतदुल्लेखाथ वीक्ष्यतां प्रो०पिटर्सन रिपॉर्टसम्ज्ञकस्स ग्रन्थस्य प्रथमस्य विभागस्याचं परिशिष्टं (पृ. ९.)। ९ एतत् पद्यं यथा
"इत्थं श्रीमानतुङ्गप्रभुचरितमतिस्थैर्यकृजैनधर्म
प्रासादस्तम्भरूपाः सुकृतभरमहापहविष्टम्भहेतुः । श्रुत्वा कुत्रापि किञ्चिद्गदितमिह मया सम्प्रदायं च लभ्या
शोध्य मेधामधानैः सुनिपुणमतिभिस्तच नोपासनीयम् ॥" भ.8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org