________________
भक्तामरस्तोत्रस्य अथात्र 'भारते क्षेत्रे, देशे 'मालव' संज्ञके । पुरी 'धारा' परा रेजे, लसत्प्रासादसद्ध्वजा ॥२॥ यत्र सर्वजनानां हि, मुखाब्जेषु सरस्वती । अध्युवासोच्यते शोभा, कीदृशी ब्रह्मतः परा ॥३॥ यदोपरि समायात्य, चन्द्रोऽपि निष्कलङ्कताम् । याति श्रोतुं च गीतानि, यदा तिष्ठति चैणकः॥४॥ अथास्ति तत्पतिः ख्यातः, खगधाराजितारिकः । सन्तर्पिताखिलो भोजो, महत्या दानधारया ५ तस्य मन्त्री समाख्यातो, बुद्धिमान् मतिसागरः । वीतरागपदाम्भोज-सेवनैकमधुव्रतः ॥ ६॥ सभामापूर्य चान्येद्युः, संस्थितो हरिविष्टरे । चलचामरकल्लोले-वज्यिमानो नराधिपः ॥ ७॥ कालिदासादयस्तस्य, पण्डिताः शास्त्रपारगाः। कवित्वादिकलास्तोम-कोविदा गर्विणो भृशम् ८ मिलित्वा ते समायाताः, सभायां कौतुकोत्सुकाः । संस्कृतोपस्कृतालापा, मन्त्राराधनतत्पराः॥९॥ कालिदासेन संच्छिद्य, स्वपादौ नवि(वी?)नौ पुनः कालिकांच समाराध्य, समानीय प्रदर्शितौ॥ भनोदरादिरोगेण, भार्गवी पीडितो शुभात् । अम्बिकाराधनादासीद्, राज्ञोऽग्रे कामसन्निभः ११ गलत्कुष्ठेन रोगेण, माघोऽभूद् व्रणिताङ्गकः । राजावलोकनायोग्य-समाराधितसद्रविः ॥१२॥ सूर्यांशुव्याप्तसद्देहो, दृश्यते सुन्दराकृतिः । इत्यादि बहुधाऽऽश्चर्य, दर्शितं तैः प्रभोः पुरः॥ १३ ॥ वयमेव हि मत्रज्ञाः, शास्त्रज्ञा वयमेव च । किश्चिजानन्ति नो देव!, दिक्पटा ज्ञानविच्युताः१४ तेषां गर्वोद्धतं वाक्य-माकर्ण्य स्व(क)मत्रिणम् । संग्रोवाचेति गुरव-स्तावकाश्चेन्ममाग्रतः॥१५॥ खविद्याबलतः किश्चिद्, दर्शयन्तु च कौतुकम् । तर्हि मान्याः स्थितिश्चैषां, नान्यथा मामके पुरे॥ खात्मकायेकरा एते, सर्वजीवदयावहाः । मन्त्रादिकं न कुर्वन्ति, देव! तेनोदित पुनः॥ १७ ॥ तथापि तद्वचं मत्वा, बहुचिन्तातुरोऽभवत् । तावत् समाययौ तत्र, मुनिपो ज्ञानलोचनः॥१८॥ मानतुङ्गः स्वचारित्र-पवित्रीकृतभूतले(ल:?)। तदागमं प्रतिज्ञाय, वन्दितुं जग्मिवान् स तम् १९ मत्रिणा कथितं श्रुत्वा, वृत्तान्तं धर्मवत्सलः । जातरूपः समायासीन्-मुनीशो राजसंसदि ॥२०॥ परिक्षिप्तं च तद्विद्या, भोजस्तुर्याधिकास्तदा । चत्वारिंशन्मुनेरङ्गे, लोहमुद्रा विधाय च ॥२१॥ चतुर्भूमीतले हम्फे, निक्षिप्य मुनिमुत्तमम् । कपाटतुर्यकं राज्ञा, दापितं मुद्रयान्वितम् ॥ २२ ॥ वृषभस्तवनं रात्रौ, तेनारब्धं तदा महत् । एकैकं क्रियमाणं सत् , काव्यं मन्त्राक्षरान्वितम् ॥२३॥ छिनत्ति लोहमुद्रां च, ह्येकैकं मुनिदेहतः । एवं सर्वाश्च ताः प्राप्ता, भिदा लोहस्य शृङ्खलाः ॥२४॥ ततः प्रगे समायात्य, संस्थिते नृपतेः पुरः। करस्थशृङ्खलः साधुः, सर्वलोकसमक्षकम् ॥ २५ ॥ जगादेति नराधीश, विद्यावान् कोऽपि तेऽस्ति चेत् । करस्थशृङ्खलां तर्हि, मम दूरीकरोतु सः २६ खविद्या प्रकटीकृत्य, कालिदासादयश्च ते । राजाज्ञया कृतोपाया, नाशकन् तन्निराकृतौ ॥२७॥ तेनाकाधिक्षमा नैते, स्वविघनिग्रहेऽत्र किम् । शृगालो जीयते यैन, कथं तैर्हरिणाधिपः ? ॥२८॥ असत्यवचनासक्ता, मायादर्शितकौतुकाः । मिथ्यागर्वोद्धता मुग्ध-प्रतारणपरायणाः ॥२९॥ इत्युक्त्वा चरमं काव्यं, संस्कृतं तेन तत्क्षणे । पश्यत्सु सर्वलोकेषु, शृङ्खला भिदमागमत् ॥३०॥ लोहमुद्राऽतिगं वीक्ष्य, विसितोऽभून्नृपो हृदि । विलक्षत्वं गताश्चान्ये, दुःखदो हि पराजयः ३१ त्वमेव भुवने धन्यो, मोहहन्ता त्वमेव च । तपोधनस्त्वमेवासि, त्वमेव ज्ञानवानिह ॥ ३२॥ सत्यवाक्याङ्कितस्त्वं वा, शिवमार्गस्त्वमेव च । त्वमेव शङ्करो लोके, हितकर्ता त्वमेव च ३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org