________________
भूमिका मरेति नवं स्तवं कुर्वन् प्रतिकाव्यं भग्नेकैकनिगडः शृङ्खलासयैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ॥" - श्रीउज्जयिनीनरेशवृद्ध भोजपूज्यमयूर-बाणसमकालीनाः “शान्तिस्तवविधातृश्रीमानदेवाचार्यपट्टमुकुटा भयहर-भत्तिभ(भ)रस्तवादिकरणप्रकटाः श्रीमानतुङ्गसूरयः श्वेताम्बराः" इति श्रीगुणाकरसूरयः (पृ० ४)। __ प्रभावकचरिते श्रीमानतुङ्गसूरयः प्रथमं दैगम्बरीयां दीक्षां जगृहुस्तदनन्तरं श्वेताम्बरीया. मिति व्यावणि श्रीप्रभाचन्द्रसूरिभिः । अस्माद् विपरीत उल्लेखो वर्तते जयपुरीयक्रियाकलापटीकाप्रतौ । स चायम्-"मानतुङ्गनामा सिताम्बरो महाकविः निर्ग्रन्थाचार्यवर्यैरपनीतमहाव्याधिः प्रतिपन्ननिर्ग्रन्थमार्गो भगवन् ! किं क्रियतामिति ब्रुवाणो भगवता परमात्मनो गुणगणस्तोत्रं विधीयतामित्यादिष्टः भक्तामरेत्यादिस्तुतिमाह ।" सहस्रावधानिश्रीमुनिसुन्दरसूरिप्रणीतायां गुर्वावल्यामुल्लेखोऽयम्"आसीत् ततो दैवतसिद्धिऋद्धः, श्रीमानतुङ्गोऽथ गुरुः २१ प्रसिद्धः । भक्तामराद् बाणमयूरविद्या-चमत्कृतं भूपमवोधयद् यः ॥ ३५॥ भयहरतः फणिराज, यश्चाकार्षीद् वशंवदं भगवान् । भक्तिभरेत्यादि-नमस्कारस्तवदृब्धबहुसिद्धिः॥ ३६॥ जज्ञे चैत्ये प्रतिष्ठाकुन-नेमेनागपुरे' नृपात् ।।
त्रिभिर्वर्षशतैः ३०० किश्चि-दधिकारसूरिराट् ॥ ३७॥" श्रीदेव विमलगणिविरचिते हीरसौभाग्ये (स० ४, पृ० १६४) यथा"तदीयपट्टाम्बरभानुमाली, श्रीमानतुङ्गश्रमणेन्दुरासीत् ।। य औजिढत् साधुजनान् निजाज्ञां, नाथान् पृथिव्या इव सार्वभौमः ॥ ७५ ॥ भक्तामराह्वस्तवनेन सूरि-भञ्ज योऽङ्गान्निगडानशेषान् । प्रवर्तितामन्दमदोदयेन, गम्भीरवेदीव करी धरेन्दोः ॥ ७६ ॥ श्रीमानतुङ्गः करणेन भक्ता-मरस्तुतेस्तं क्षितिशीतकान्तिम् । चकार ननं फलपुष्पपत्र-भारेण यद्वत् फलदं वसन्तः ॥ ७७॥ भयादिमेनाथ हरस्तवेन, यो दुष्टदेवादिकृतोपसगोन् । श्रीभद्रबाहुः स्वकृतोपसर्ग-हरस्तवेनेव जहार सङ्घात् ॥ ७८ ॥ सध्याननागेश्वररश्मिसाम्य-मन्थाद्रिणाऽऽलोड्य मदाम्बुराशिम् । तत्पट्टलक्ष्मीरथ वीरनाम्ना-ऽऽचार्येण वत्रे वनमालिनेव ॥ ७९ ॥" श्रीरत्नचन्द्रसूरिकृतटीकायां यथा
श्रीवर्धमानं प्रणिपत्य मूर्धा दोपैय॑पेतं ह्यविरुद्धवाचम् । ..
वक्ष्ये फलं तत् वृषभस्तवस्य सूरीश्वरैर्यत् कथितं क्रमेण ॥ १॥ १ कर्तारोऽस्य श्रीप्रभाचन्द्राचार्याः । २ श्रीमानदेवसूरेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org