________________
१८
भक्तामर स्तोत्रस्य
श्रीप्रभाचन्द्राः श्रीशुभचन्द्राः श्रीमानतुङ्गसूरीणां परिचय:
श्रीमतां भवतां परिचय साधनानि तावत् श्रीप्रभाचन्द्रसूरि सूत्रितं प्रभावकचरितम्, श्रीमेरुतुङ्गमुनिवरप्रणीतः प्रबन्ध चिन्तामणिः, श्रीगुणाकर सूरिप्रमुखविरचिता वृत्त्यादयश्च । तत्र प्रभावकचरितादिदमवगम्यते
वाराणस्यां श्रीहर्षदेवराजा राज्यं करोति स्म । तस्यां पुर्या ब्रह्मक्षत्रियजातीयो धनदेवनामा सुधीर्वसति स्म । तत्सुतो मानतुङ्गाख्य एकदा दिगम्बर साधुसकाशाद् धर्मदेशनां श्रुत्वा वैराग्यरङ्गेण रङ्गित आपृच्छय मातापितरौ दीक्षां जग्राह । चारुकीर्तिर्महाकीतिरित्याख्यां च लेभे ।
एकदा स श्वेताम्बरशासन सक्तया निजखस्रा भोजनार्थं निमन्त्रितः । तस्य कमण्डल अशोधनप्रमादेन जलस्य चानुसन्धानात् अनेके सम्मूर्च्छिताः पूतरा आसन् । तद् दृष्ट्वा स्वसास प्रतिबोधितः । कालान्तरे तेन श्रीजिनसिंह सूरितः श्वेताम्बरमतानुसारिणी दीक्षा स्वीकृता । तदा तस्य मानङ्गेति नाम जातम् ।
अतः परं या स्तोत्रटीकाप्रारम्भे श्रीगुणाकरसूरिभिः मयूरबाणवृत्तान्तः कथितस्तादृक् वर्णितः प्रभावकचरिते । परन्तु ऐतिहासिकदृष्ट्या विशेषोऽयं यदत्र वाराणसी नगरी, तत्र तु उज्जयिनी पुरी, तच्छासिता श्रीवृद्ध भोजराजः । स्तोत्रोत्पत्तिहेतावपि अत्र काचिद् भिन्नता वर्तते । यथाहि - न च खेच्छानुसारेण चतुश्चत्वारिंशन्निगडैर्नियत्रितो निजदेहः श्रीमानतुङ्गसूरिभिः, किन्तु चमत्कारदर्शनास्वीकारात् कुपितेन राज्ञा ते कारागृहे क्षिप्ता निगडिताच || प्रबन्धचिन्तामणी ( पृ० १०५ - १०८ ) तु यथा
"अथ मयूर - चाणाभिधानौ भावुकशालकौ पण्डितौ निजविद्वत्तया मिथः स्पर्धमानौ नृपसदसि लब्धप्रतिष्ठावभूताम् । एतस्मिन्नवसरे मिध्यादृशां शासने विजयिनि ( मयूर - बाणदर्शितप्रभावेन ) सम्यग्दर्शनद्वेषिभिः कैश्चित् प्रधानपुरुषैर्नृपोऽभिदधे - यदि जैनमते कश्चिदीदृक्प्रभावाविर्भावः प्रभवति तदा सिताम्बराः स्वदेशे स्थाप्यन्ते, नो चेन्निर्वास्यन्ते इति तद्वचनानन्तरं श्रीमानतुङ्गाचार्यस्तत्राकार्य निजदेवताऽतिशयं कमपि दर्शयन्तु इति राज्ञा भणितम् । ते प्राहु: - मुक्तानामस्मद्देवतानामत्र कोऽतिशयः सम्भवति । तथापि तत्किङ्कराणां सुराणां प्रभावाविर्भावः कोऽपि विश्वचमत्कारकारी दर्श्यत इत्यभिधाय चतुश्चत्वारिंशता निगडैर्निजम नियमितं कारयित्वा तन्नगरवर्तिनः श्रीयुगादिदेवस्य प्रासादपाश्चात्यभागे स्थितो मत्रगर्भ भक्ता
इतिहासतस्व महोदधिश्री विजयेन्द्र सूरिप्रतिप्रान्तेऽयमुलेखः --
"इति श्रीमहारक श्रीरत्नचन्द्रसूरिविरचिता भक्तामर स्तोत्रवृत्तिः समाप्ता ॥ लिखितं पं० अमरविजयेन । संवत् १८५६ वर्षे मिति ज्येष्ठसितनवम्यां तिथौ चन्द्रजवारे गिररीनगरे ।"
१ हिन्दीजैनचरितमालायां प्रसिद्धाया भक्तामरकथाया अनुसारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org