SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रस्य ३ श्रीसरखती-भक्तामरम् । अस्य कर्तारः मुनिश्रीषेमकर्णान्तेवासिनः श्रीमद्धर्मसिंहसूरयः। ४ श्रीशान्ति-भक्तामरम् । अस्य कवयितारः श्रीकीर्तिविमलशिष्याः श्रीलक्ष्मीवि. मलमुनयः। - ५ श्रीपार्श्व-भक्तामरम् । अस्य विधातारः श्रीविनयलाभगणयः श्रीविनयप्रमोदा. नां विनेयाः। ६ श्रीऋषभ-भक्तामरम् । अस्य गुम्फितारो वाचकश्रीसमयसुन्दरगणयः अष्टलक्षार्थी(अर्थरत्नावली )प्रमुखग्रन्थप्रणेतारः । तत्राद्यं पद्यं यथा "ननेन्द्रचन्द्र ! कृतभद्र ! जिनेन्द्रचन्द्र !, ज्ञानात्मदर्शपरिदृष्टविशिष्टविश्व!। वन्मूर्तिरर्तिहरणी तरणी मनोज्ञे-वालम्बनं भवजले पततां जनानाम् ॥१॥" - ७ श्रीप्राणप्रिय-भक्तामरम् । अस्य निर्मातारः श्रीधर्मसिंहमूरिशिष्यवर्याः श्रीरत्नसिंहसूरयः । प्रारम्भिकं पद्यमेवम् -- "प्राणप्रियं नृपसुता किल रैवताद्रि-शृङ्गाग्रसंस्थितमवोचदिति प्रगल्भम् । __ असादृशां मुदिरनीलवियोगरूपे, वाऽऽलम्बनं भव जले पततां जनानाम् ॥ १॥" ८ श्रीदादापार्श्व-भक्तामरम् । अस्य ग्रथयितारः मुनिराजश्रीमत्पण्डितपद्मसागराणां विनेयाः श्रीराजसुन्दरमुनिपुङ्गवाः । अग्रिमं पद्यमिदम् "श्रीअश्वसेननरराजपवित्रपुत्रः, कल्याणसन्ततिकरः स सदा ममास्तु । __यस्यार्चनां विदधतीह बुधाः क्रमाणां, भक्तामरप्रणतमौलिमणिप्रभाणाम् ॥१॥" पूर्वोक्तानि समस्याकाव्यानि अनन्तरवक्ष्यमाणानि च चतुर्थचरणपूर्तिरूपाणि, इदं तु प्रथ. मपादपूर्तिरूपमिति विशेषता । ९ श्रीजिन-भक्तामरम् । यमकमयस्यास्य विधातनाम न ज्ञायते । अस्य प्रथमं पद्यं यथा "नत्वाऽऽगमं तु भवदाननजं सुरम्यं, यत्राङ्ग्रिदेव(?) तव सेवनमाधिगम्यम् । पापौघतापशमने सुमहं धनानां, वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥" १० श्रीऋषभदेवजिनस्तुतयः । इमा भक्तामर स्तोत्रस्य आद्यस्य पद्यस्य समग्रचरणसमस्थारूपा अज्ञातकर्तनामधेयाः श्रीयशोविजयजैनग्रन्थमालायाः श्रीजैनस्तोत्रसङ्ग्रहस्स द्वितीये विभागे मुद्रिताः। 1-३ मदीयानुवादादिसमेतं एतत् काव्यत्रयं प्रसिद्धिं नीतं श्रीभागमोदयसमित्या पूर्वोक्त काव्यसङ्ग्रहस्य द्वितीये विभागे। ४ इदं काव्यं शेषाणि च सर्वाणि समस्याकाव्यानि मदीयानुवादसमेतानि सन्ति मुद्राप्यमाणानि पूर्वोक्तकाव्यसङ्ग्रहस्य तृतीये विभागे। ५ मदीयप्रस्तावनापूर्वको मुद्राप्यमाणो ग्रन्थोऽयं श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धारसंस्थया। . . ६ एतदर्थ या प्रतिरुपलब्धा साऽशुद्धप्राया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy