SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भूमिका ११ श्रीवल्लभ-भक्तामरम् । अस्य प्रणेतारो न्यायाम्भोनिधिजैनाचार्य श्रीविजयानन्दसूरीशसन्तानीयाः श्रीमद्विजयवल्लभसूरीणां विनेयाः मुनिवर्यश्रीविचक्षण विजयाः । १२ श्रीसूरीन्द्र भक्तामरम् । एषा निर्मितिर्दक्षिणविहारिमुनिपुङ्गव श्री अमर विजयशिष्यरत्नमुनिराज श्रीचतुरविजयानाम् । एतस्या अग्रिमं पद्यं यथा "भक्तामरेशगुरुगीतयशश्चयानां श्रेयः श्रियां विपुलकेलिगृहं जिनानाम् । भक्त्या प्रभावनिलयौ प्रणिपत्य पादा वालम्बनं भवजले पततां जनानाम् ॥ १५ ॥ " १३ श्री आत्म-भक्तामरम् । अस्य निर्मातारः प्रसिद्धिकारकाथ पण्डित हंसराजतनुजनुषो हीरालालाः । अथ कैः कैः कोविदैर्भक्तामर स्तोत्रस्य वृत्तयो विरचिता इति जिज्ञासायामुच्यते प्रथमं श्वेताम्बर साम्प्रदायिकानां वृत्तिकाराणां सुगृहीतनामधेयानि । तथाहि रचनासमयः (१) श्रीगुणाकरसूरयः (रुद्रपल्ली व गच्छीयाः) १४२६ (२) श्रीरामचन्द्रसूरयः १४७१ (३) श्री अमरप्रभसूरयः पञ्चदशशताब्द्याम् ४०० १ इदं प्राकाश्यं नीतं श्रीविजयवल्लभसूरिचरित्रे आदर्शजीवनापरनाम्नि ग्रन्थे (पृ. २०१–२०९) । २ अद्यापि प्रसिद्धि नानीतमिदम् । ३ एतत्प्रारम्भिकं पद्यं यथा "श्रीसर्वज्ञं नमस्कृत्य, सद्गुरूणां क्रमाम्बुजम् । वक्ष्ये भक्तामरस्याहं, पर्यायान् कतिचित् पुनः ॥ १ ॥ " भन्ते चैवम् - " इति भक्तामरस्य लघुवृत्तिः पर्यायरूपा रामचन्द्रसूरिकृता” ४ इमे के इति जिज्ञासातृत्यर्थं प्रेक्ष्यतां निम्नलिखितं पद्यन्त्रितयम्"श्री अमरप्रभसूरीशा, वैदुष्यगुणभूषिताः । भक्तामर स्तवी (वे) वृत्ति-मकार्षुः सुखबोधिकाम् ॥ रीत्यभङ्गोऽन्वयाभङ्गः, समासव्यत्ययः क्वचित् । कथितो विपरीतार्थो, विबुधैः शोध्यतामयम् ॥ ४४ ॥ साधुश्रीवाचनाचार्य देवसुन्दरसद्यतेः । तस्याभ्यर्थनतोऽप्येवं, गुणरत्नमहोदधेः ॥" श्लोकसङ्ख्या १५७२ १५ प्रतिज्ञान्तस्थ उल्लेखोऽयम् - "इति श्री भक्तामरस्तवस्य सुखबोधिका टीका समाप्ता । संवत् १८७९ वर्षे मिति माघसुदि १३ त्रयोदशीशुक्रवासरे श्रीबृहत् खरतरगच्छे श्रीक्षेमकीर्तिशाखायां वाचनाचार्य श्रीयुक्तिसेन जी गणित च्छिष्य मुख्य श्री वाचना युक्तिधीरजी गणितच्छिष्यदक्षपं ० कनकरत्नेन लिपीकृतम् । Jain Education International श्री हैदराबादमध्ये लिपीकृतम् भन्रीज पं. रूपचंद पठनार्थम् ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ श्री ॥ " जैन ग्रन्थावल्यां २८५ तमे पृष्ठे भक्तामरवृत्तिकाररूपेण श्रीदेवसुन्दराणामप्युल्लेखा वर्तते । किन्तु प्रशस्तिपठनप्रमादजन्योऽयमिति शङ्कयते । ५ आनुमानिको ऽयमुलेखः । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy