________________
भूमिका "भक्तानाममृतान्धसां प्रणतमौलिप्रोतरत्नत्विषां
यस्योद्योतकमंहियुग्मममलं ध्वस्ताखिलैनस्तमः । जन्माब्धौ बुडतां सतामसुमतामालम्बनं पावनं
सम्यक् तं शिरसा प्रणम्य वृषभं स्तोष्ये किलाद्यं जिनम् ॥१॥" अपरश्च-कविवर कालिदासकृतं मेघदूतं विहाय नान्यस्य कस्यापि काव्यस्य एतावन्ति पादपूर्तिरूपकाव्यानि यावन्ति स्तोत्रस्यास्य । अनेनावगम्यतेऽस्य स्तोत्रस्य लोकप्रियत्वम् । किञ्च श्रीशुभशीलगणिभिर्भक्तामरमाहात्म्यं निरमायीत्यपि स्मरणीयम् ।
समस्यारूपाणि काव्यानिएतत्समस्यारूपाणि बहूनि काव्यानि प्रणीतानि विविधविबुधवरैरिति श्रूयते, परन्तु तत्र निम्नलिखितान्युपलब्धानि मया ।
१ श्रीवीरभक्तामरम् । अस्य १७३६तमे वैक्रमीये वर्षे प्रणेतारः श्रीविजयहर्षवाचकानां विनेया उपाध्यायोपाधिविभूषिताः श्रीकीर्तिसुन्दरगणिगुरवः श्रीधर्मसिंहेत्यपरनामधेयाः श्रीधर्मवर्धनगणयः । न केवलं एभिः इदं काव्यं खोपज्ञटीकया समलङ्कृतम् , किन्तु श्रेणिकचतुष्पदी (सं. १७१९)-धर्मवावनी (सं. १७२५)-२८लब्धिस्वाध्याय (सं. १७२६)-चतुर्दशगुणस्थानविचारगर्भितसुमतिजिनस्तवन(सं. १७२९)-सुरसुन्दरीरास(सं. १७३६)-चतुर्विंशतिजिनस्तवन(सं. १७४३)-दशार्णभद्रचतुष्पदी(सं. १७५७)-आगमसूत्रसङ्ख्यास्तवन-आत्मबोधस्वाध्यायप्रमुखा ग्रन्था जग्रन्थिरे मुख्यतया गूर्जरवाण्याम् ।।
२ श्रीनेमि-भक्तामरम् । अस्य रचयितारः पूर्णिमागच्छीयश्रीमहिमाप्रभसूरिशिष्याः श्रीभाणरत्न-ज्योतीरत्नगुरवः श्रीलक्ष्मीरत्नादिगुरुबान्धवाः श्रीललितप्रभमूरिकृतश्रीशान्तिनाथस्तुतिवृत्ति( सं. १७६५ )-कल्याणमन्दिरचतुर्थचरणसमस्यारूपजैनधर्मवरस्तोत्रतद्वृत्ति(सं. १७९१)-प्रतिमाशतकलघुवृत्ति-( सं. १७९३ )-नयोपदेशावचूरि-श्रीपाश्वेचन्द्रकृतमहावीरस्तोत्रवृत्ति-मातृकाप्रकरण-हुताशनीकथा (सं. १७९२)-गहुंलिकार्थ-पर्युषणअट्ठाइ. व्याख्या-श्रीआषाढभूतिस्वाध्याय-श्रीचिन्तामणिपाश्वस्तोत्रबालावबोध-सँभाचमत्कार(चमत्कारिकुतूहल)-आध्यात्मिकस्तुत्यादिगूर्जरकाव्यप्रणेतारः श्रीभावप्रभसूरयः ।
विलोक्यता जैनग्रन्थावली (पृ. २६८)। २ जैनग्रन्थावल्यां (पृ. २८५) अभिनवभक्तामरेतिसम्झका कृतिर्निरदेशि । सा समस्याकाव्यं स्यात् , भक्तामरच्छायास्तवनं तु भिन्नस्वरूपं भवेदिति मे मतिः ।
३-४ श्रीभक्तामरस्तोत्रपादपूर्तिरूपकाव्यसङ्ग्रहस्य प्रथमे विभागे मुद्रापितमेतत् काव्यद्वयं मदीयभाषान्तरविवेचनादिपरिष्कृतं श्रीभागमोदयसमित्या। ___५ स्वोपज्ञष्टीकासमेतमिदं स्तोत्रं गहुंलिकार्थः सभाचमत्कारश्च मुद्राप्यते श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धारसंस्थाद्वारा यत्र श्रीभावप्रभसूरीणां जीवनवृत्तान्तो विशेषतः सङ्कलनयाऽऽलेखितो मया । ६-७ एतस्कृतिकलापसम्पादकेन ।
भ.7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org