SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रस्य ___ कर्पूरमचर्याष्टीकायामपि २७०तमे पृष्ठेऽवतारितं पद्यमिदम् । कलिकालसर्वज्ञश्रीहेमचन्द्रसरिभिः खोपज्ञटीकासण्टङ्किते काव्यानुशासने (पृ० ६७) 'देव-मुनि-गुरु-नृप-पुत्रादिविषयानुभाव एव, न पुना रसः' इत्युल्लेखस्य समर्थने देवविषया यथा "यः शान्तरागरुचिभिः परमाणुमिस्त्वं निर्मापितत्रिभुवनैकललामभूत! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत् ते समानमपरं नहि रूपमस्ति ॥" इति एकादशः श्लोक उदाहृतः । अयमेव श्लोक उदलेखि श्रीयुतनेमिकुमारतनुजैः श्रीवाग्भटैः खोपज्ञव्याख्याविभूषिते काव्यानुशासने (पृ. ३०) माधुर्याधिकारे । "तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ! ___तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय ___ तुभ्यं नमो जिन! भवोदधिशोषणाय ॥" इति २६तमं श्लोकं निदर्शनीचक्रुः श्रीसिंहदेवगणयः बाहडे त्यपराभिधानानां श्रीवाग्भटानां वाग्भटालङ्कारस्य टीकायां (पृ० ११) निम्नलिखित "स्यादनर्घान्तपादान्ते-ऽप्यशैथिल्ये लघुर्गुरुः । पादादौ न च वक्तव्या-चादयः प्रायशो बुधैः ॥ १७ ॥" -पद्यविवेचने। स्तोत्र-गौरवम् भक्तामरस्तोत्रस्य सप्तस्मरणेषु समावेशः संसूचयति एतद्गौरवम् । यावत्यो व्याख्या एतत्स्तोत्रपरत्वे विद्यन्ते तावत्यः प्रायो न कस्यापीतरस्य स्तोत्रस्य सम्बन्धिन्यः । अनेनापि एतद्गौरवं विशदीक्रियते । इदमपि स्मृतिपथं नीयतां यदुतास्स स्तोत्रस्य आम्नाययन्त्रमण्डलपूर्वक संस्थानं विद्यते बृहज्योतिषार्णवनाम्नि जैनेतरे ग्रन्थे। किश्च-न चास्य महीयसी समातिर्विश्रुतिश्च केवलं श्वेताम्बरसम्प्रदाये एव, परन्तु इदं सहयोगिभिर्दिक्पटैरपि समाद्रियते । तेषां साहित्येऽस्य जयमालाऽपि वर्तते । तस्या एकस्यां सचित्रायां प्रतौ उल्लेखस्तु यथा__"॥ ॐ नमः सिद्धेभ्यः ॥ अथ भक्तामरस्तोत्रभाषाकवित्तपूजाज(प)मालामत्रविधानमत्र लिख्यते । अथ जयमाला लिख्यते गीर्वाणवाण्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy