SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भूमिका "त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥" -पद्यस्य तु शब्दतः अर्थतश्च साम्यं दरीदृश्यते शुक्लयजुर्वेदे (अ० ३१) निम्नलिखिते पुरुषसूक्ते "वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ १८ ॥" भगवद्गीतायां (अ० ८, श्लो० ९) तु 'आदित्यवर्ण तमसः परस्तात्' इत्येव श्यते । यथाऽऽह "कविं पुराणमनुशासितार-मणोरणीयांसमनुस्मरेत् यः। सर्वस्य धातारमचिन्त्यरूप-मादित्यवर्ण तमसः परस्तात् ॥" श्रीवीतरागस्तोत्रेऽपि यथा "यः परात्मा परं ज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्ण तमसः, परस्तादामनन्ति यम् ॥१॥" गीर्वाणगीर्गुम्फितायां श्रीरत्नप्रभसूरिरचितायां कुवलयमालाकथायामपि "आदित्यवर्ण तमसः परस्ता-दस्तान्यतेजःप्रचयप्रभावम् । __ यमेकमाहुः पुरुषं पुराणं, परात्मदेवाय नमोऽस्तु तस्मै ॥१॥" ऋग्वेदेऽपि विलोक्यते पदावली इयम् "ॐ नग्नं सुधीरं दिग्वाससं ब्रह्मगर्भ सनातनं उपैमि वीरं पुरुषमर्हन्तमादित्यवर्ण तमसः परस्तात् स्वाहा ।" श्रीभक्तामरस्तोत्रस्य साक्षिरूपेणोद्धृताः श्लोकाः श्रीजिनप्रभसूरिभिः उपसर्गहरस्तोत्रस्य स्वकीयायामर्थकल्पलतानामधृत्तौ (पृ० १२) उदलेखि दशमः श्लोको यथा "नात्यद्भुतं भुवनभूषणभूत ! नाथ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किंवा भूत्याश्रितं य इह नात्मसमं करोति ॥" । मुद्रापितेयं वृत्तिः श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तोद्धारसंस्थया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy