SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रस्य तत्र स ज्ञानदृष्टिभ्यां, चेष्टावान् सकलस्ततः। आश्रित्य वाग्वपुश्चेष्टा, निष्कलोऽप्येष कीर्त्यते ॥ ४६५ ॥ कर्मोपक्रमयोरात्म-देहयोर्द्रव्यभावयोः । ज्ञानचारित्रयोर्भोग-योगयोः श्रीगिरोरपि ॥ ४६६ ॥ एकैकं वस्त्ववष्टभ्य, कुर्युः के केत्र नो कलिम्।। अयं तत्र परित्यक्त-द्वन्द्वस्तेन सदा सुखी ॥ ४६७ ॥ यद् यत् संसारिभिर्जीवैः, सुखाय परिकल्पितम् । तन्मेने तेन ( तत्तन्मेने स?) दुःखाय, ततो विश्वविलक्षणः॥ ४६८॥" एतदधिकारगतं निम्नलिखितं ४८६तमं पद्यमपि दर्शनीयम् "नीरूपं विश्वरूपं सकलमकलनं व्यक्तमव्यक्तमेकं चाने पुण्यपापप्रकृतिमतिगतं योगिलक्ष्यं हलक्ष्यम् । भावाभावस्वभावं सगुणमपगुणं नायकं नायकानां ध्येयानां ध्येयमेकं प्रणमत परमात्मानमिष्टार्थसिद्ध्यै ॥ ४८६ ॥" -सप्तमाधिकारे अन्तिमं पद्यं ततः प्रशस्तिः इदमपि रम्यं पद्यं मननीयं मनीषिभिः "परब्रह्माकारं सकलजगदाकाररहितं ___ सरूपं नीरूपं सगुणमगुणं निर्विसु-विभुम् । विभिन्नं सम्मिन्नं विगतमनसं साधुमनसं पुराणं नव्यं चाधिहृदयमधीशं प्रणिदधे ॥ १॥" अनेन सार्यते भक्तामरस्तोत्रस्य निम्नलिखितं नानार्थगम्भीरं पद्यम् "त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाचं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेक ज्ञानखरूपममलं प्रवदन्ति सन्तः ॥ २४॥" स्मृतिपटे आलिख्यतां निम्नलिखितं पद्यमपि "शिवोऽथादिसङ्ख्योऽथ बुद्धः पुराणः, पुमानप्यलक्ष्योऽप्यनेकोऽप्यथैकः । प्रकृत्यात्मवृत्त्याऽप्युपाधिखभावः, स एकः परात्मा गतिर्मे जिनेन्द्रः ॥२॥" -परमात्मद्वात्रिंशिकायाम् एवं २४-२५तमयोः पद्ययोर्भावप्रतिविम्बिता जैनसाहित्ये समस्ति । त्रयोविंशतितमस निम्नलिखितस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy