________________
भूमिका अनेन स्मृतिपथमवतरति श्रीमहादेवाष्टकं यद्विधानवेधसो मध्यस्थभावपरिपूर्णशास्त्रवार्तासमुच्चयादिग्रन्थगुम्फितारो जैनानामद्वितीयानेकान्तवादस्य पताकाया निर्वाहकाः श्रीहरिभद्रसूरयः । एभिः संयमिशेखरैलॊकतत्त्वनिर्णयाभिधायां निजकृतौ प्रोक्तम्
"त्यक्तखार्थः परहितरतः सर्वदा सर्वरूपं
सर्वाकारं विविधमसमं यो विजानाति विश्वम् । ब्रह्मा विष्णुर्भवतु वरदः शङ्करो वा हरो वा ___ यस्याचिन्त्यं चरितमसमं भावतस्तं प्रपद्ये ॥ ३७॥" "यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते ।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ४० ॥" श्रीजयशेखरसूरिभिः यम-रस-भुवन( १४६२ )मितेऽब्दे विरचिते प्रबोधचिन्तामणी सप्तमाधिकारे देवाधिदेवस्य नामनानात्वस्य हृदयङ्गमं वर्णनम् । तथाहि
"नित्यमम्लानसज्ज्ञान-दर्शनज्योतिराश्रयः । स राजेति निजं नाम, नेता सार्थकतां तदा ॥ ४५६ ॥ पृथिव्या आगतत्वेन, पार्थिवः स प्रकीर्तितः । प्रजापालोऽपि निमुक्त-निखिलारम्भसम्भवः ॥ ४५७ ॥ मौलिना ध्रियते मौलि-रिव त्रिभुवनेन सः। अतो मतो मतिमता-मेष त्रिभुवनप्रभुः ॥ ४५८॥ सर्वोपप्लवमुक्तत्वा-देष एव सदाशिवः। विष्णुश्च येन वेवेष्टि, लोकालोकं चिदात्मना ॥ ४५९ ॥ खयम्भूतो न केनापि, जनितो जन्मवर्जितः । भगवानयमेवेति, स्वयम्भूरज इत्यपि ॥ ४६० ॥ कर्माबद्धात्मसूत्कर्षात् , परमात्मा स उच्यते । परमज्ञानयोगाच्च, परमब्रह्मनामभाक् ॥ ४६१ ॥ कथञ्चिल्लक्ष्यते न झै-रप्यलक्ष्यस्ततः स्मृतः। एको द्रव्यधियाऽऽनन्त्यात् , पर्यायाणामनेककः ॥ ४६२ ॥ विनाभूतः सत्त्वरज-स्तमोभिस्तेन निर्गुणः । ज्ञानादिगुणयुतेन, गीयते स महागुणः ॥ ४६३ ॥ अव्यक्तो व्योमकल्पत्वात् , व्यक्तस्तद्गुणवर्णनात् । भावः शिवस्य पर्यायै-रभावस्तु भवस्य तैः ॥ ४६४ ॥
३ प्रसिद्धिकारिकाऽस्य श्रीजैनधर्मप्रसारकसभा १९६५तमे वैक्रमीयादे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org