SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रस्य . भक्तामरस्तोत्रे विषयनानात्वं वरीवति । तत्र निम्नलिखित "बुद्धस्त्वमेव विवुधर्चिीतबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥" -पद्यगतं भावमुद्दिश्य किश्चिदुच्यते । एतादृग्भाववाहि पद्यं प्राणायि श्रीमुनिसुन्दरसरिवरैगुर्वावल्याम् । तच्चेदम् "त्वं शङ्करः सर्वजनेष्टकर्ता, ब्रह्मा त्वमेवाखिलब्रह्मनिष्ठः । त्वमेव सत्यं पुरुषोत्तमोऽसि, त्वमेव बुद्धः सकलार्थवेदिन ! ॥२४७॥" ___ अत्र मध्यस्थभावो देदीप्यते, यतः अजैनदर्शनीयदेवानां नामधेयपूर्विका तीर्थङ्करस्तुतिरियम् । शैव-वैष्णवादीनां साहित्ये हनुमन्नाटकस प्रारम्भिकं पद्यं विहाय जैनदेवाभिधानपूर्विका एकाऽपि स्तुतिरद्यापि नागता मे दृष्टिपथं श्रुतिपथं वा । ___ अथ जैनश्वेताम्बरसाहित्ये केन मुनिचक्रशक्रेण सौवहृदयस्य उदारताया आदर्शोऽयं प्रथम उपदीकृत इति प्रश्नस्य निर्णये नाहमलम् । परन्तु श्रीसिद्धसेनदिवाकरकृतायां परमात्मद्वात्रिंशिकायां रम्यं पद्यत्रितयं दरीदृश्यते । तच्चैवम् "हेपीकेश ! विष्णो ! जगन्नाथ ! जिष्णो, मुकुन्दाच्युत ! श्रीपते ! विश्वरूप!। अनन्तेति सम्बोधितो यो निराशैः, स एकः परात्मा गतिर्मे जिनेन्द्रः ॥५॥ पुराऽनङ्गकालाऽरिराकाशकेशः, कपाली महेशो महाव्रत्युमेशः। भतो योऽष्टमूर्तिः शिवो भूतनाथः, स एकः परात्मा गतिमें जिनेन्द्रः ॥६॥ विधिब्रह्मलोकेशशम्भुस्वयम्भू-चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथो य ऊचे जगत्सर्गहेतुः, स एकः परात्मा गतिमें जिनेन्द्रः ॥७॥" कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यैः प्रणीते नाम्नाऽपि परमतसहिष्णुताप्रदर्शके महादेवस्तोत्रे विशेषतः पठनीयं निम्नलिखितं पद्यम् "भववीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तसै ॥" १ तच्चेत्थम्'" यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो ___ बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वान्छितफलं त्रैलोक्यनाथो हरिः॥१॥" २ ईडङ्नामधेयार्थं विलोक्यतां शक्रस्तवः (पृ. २४२)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy