SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भूमिका अपरश्च-श्रीशोभनमुनिवर्यविरचितायां यमकालङ्कारमण्डितायां स्तुतिचतुर्विशतिकायां ८३तमे पद्येऽपि भयाष्टकं समस्ति, तत्पद्यं तु यथा "जल-व्याल-व्याघ्र-ज्वलन-गज-रुग्-बन्धन-युधो गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासिष्ट स्फुटविकटहेतुप्रमितिभा गुरुवोहोऽपाता पदघनगरीयानसुमतः॥" अन्यत्राप्युक्तम् "वाहि १ जल २ जलण ३ हरि ४ करि ५ तक्कर ६ संगाम ७ विसहर ८ भयाई । नासंति तक्खणेणं जिणनवकारप्पभावेणं ॥" श्रीमानदेवसरिकृते लघुशान्तिस्तोत्रे निम्नलिखितं पद्यमपि भयनिर्देशकारि "सलिला-ऽनल-विष-विषधर-दुष्टग्रह-राज-रोग-रणभयतः। राक्षस-रिपुगण-मारी-चौरे-ति-श्वापदादिभ्यः ॥ १२॥" यदि राजरोगेणात्र राजयक्ष्मेत्यर्थः क्रियते, तर्हि पूर्वार्धे भयसप्तकं भवति । पूर्वाचार्यप्रणीतेऽर्हणास्तोत्रेऽन्तिमगाथायाम् "नासेइ चोर-सावय-विसहर-जल-जलण-बंधणसयाई । चिंतितो रक्खस-रण-रायभयाई भावेण ॥" इत्येवं भयनवकं निरूपितम् । उपदेशतरङ्गिण्यां नमस्कारस्मरणायां (पृ. १४८) भयचतुर्दशकस्य निर्देशो यथा"सङ्ग्राम-सागर-करीन्द्र-भुजङ्ग-सिंह-दुर्व्याधि-वह्नि-रिपु-बन्धनसम्भवानि । चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदर्भयानि ॥ ११॥" अध्यात्मकल्पद्रुमे सप्तमेऽधिकारे २१तमे पद्ये भयषोडशकसूचनमित्थम् "मृत्योः कोऽपि न रक्षितो न जगतो दारिद्यमुत्रासितं रोगस्तेन नृपादिजा न च भियो निर्णाशिताः षोडश । विध्वस्ता नरका न नापि सुखिता धर्मस्त्रिलोकी सदा तत्त्वो नाथ! गुणा मदश्च विभुता काले स्तुतीच्छा च का?॥" १ इयं मदीयगूर्जरानुवादादिसमेता श्रीभागमोदयसमित्या प्रसिद्धा । २-३ छायाव्याधि-जल-ज्वलन-हरि-करि-तस्कर-सलाम-विषधरभयानि । नश्यन्ति तरक्षणेन जिननमस्कारप्रभावेण ।। नाशयति चौर-श्वापद (शरभ) विषधर-जल-ज्वलन-बन्धनशतानि । चिन्यमानो राक्षस रण-राजभयानि भावेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy