________________
भक्तामर स्तोत्रस्य
अपरम-कारणमिदमपि सम्भवेद् यत् सङ्ग्रामभयं विहाय अन्यानि भयानि व्यक्तिसम्बन्धीनि, इदं तु समष्टिभयावहम् एतत्स्पष्टीकरणार्थं सङ्ग्रामभयवर्णने पद्यद्वयस्य रचना । किञ्च सङ्ग्रामभयवर्णनात्मकयोः पद्ययोः प्रथमे सङ्ग्रामस्य सामान्यनिरूपणं, द्वितीये तु महासङ्ग्रामस्य प्रतिपादनं, भाववृद्धिगोचरत्वात् ।
इदमपि स्मर्तव्यं शेमुषीशालिशेखरैर्यद् एतत्पद्यस्य प्रक्षेपसमयः ४३ तमपद्यस्य कालतो न अर्वाचीन इति मान्यतायां को हेतुः ? |
वर्णनशैली -
भयाष्टकवर्णनमाश्रित्य कथनमेतन्नानावश्यकं यदुत श्रीमानतुङ्गसूरिभिर्यथोद्देशस्तथा निर्देश इति शैली नाता । किन्तु न चायं नियमो यत् प्रथमं उद्देशस्ततो निर्देश इति । इदमुक्तं भवति यदुत श्योतन्मदेतिकाव्यैरष्टौ गजादीनि भयद्वाराणि निर्दिश्य मत्तद्विपेन्द्रेत्यादिना कान्वे उद्देशोऽचि । एवं सत्यपि साधुरेव शैलीयं कारिकावली - राजमार्तण्डादिष्वप्येतन्यासदर्शनात् ।
अथ प्रस्तूयते प्रास्ताविको भयप्रकारपरामर्शः । समवायनानि चतुर्थेऽङ्गे ( पृ० १२ ) भयस्य सप्त स्थानकानि प्रदर्शितानि । तत्पाठश्चायम् —
"सत्तभयाणा पत्ता, तं जहा - इहलोगभए, परलोगभए, आदाणभए, अक म्हाभए, आजी भए, मरणभए, असिलोगभए ।"
भयहरस्तोत्रे रोग-जल-ज्वलन - सर्प - चौर - सिंह- गज-रणेति भयाष्टकम्, भक्तामरे तु कुञ्जर- मृगपति - दवानल - फणिधर- सङ्ग्राम- सागर - जलोदर - बन्धनेति भयाष्टकम् ।
अनेन भयप्रकारे नानात्वं ज्ञायते, यतः सप्तानां भयानां समानत्वे सति एकत्र चौरभर्य, अन्यत्र बन्धनभयम् ।
८ बिभेति रुष्टाऽसि किलेत्यकस्मात् स त्वां किलापेऽतिहत्यकाण्डे । यान्तीमिव त्वामनु यात्यहेतो- रुक्तस्त्वमेव प्रतिवक्ति मोघम् ॥ ११२ ॥ भवद्वियोगच्छिदुरार्तिधारा - यमस्वसुर्मज्जति निःशरण्यः ।
मूर्द्धामयद्वीप महान्यपङ्के, हा हा महीभृद्भटकुञ्जरोऽयम् ॥ ११३ ॥ सव्यापसव्यत्यजनाद् द्विरुक्तैः पचेषुबाणैः पृथगर्जितासु ।
दशासु शेषा खलु तद्दशा या, तथा नभः पुष्यतु कोरकेण ॥ ११४ ॥
१ विश्वनाथन्यायपञ्चानन भट्टकृतायां कारिकावल्यां पद्यद्वयं यथा-"एते पञ्चान्यथासिद्धा, दण्डेत्यादिकमादिमम् । trict दण्डरूपादि, द्वितीयमपि दर्शितम् ॥ २१ ॥ तृतीयं तु भवेद् व्योम, कुलालजनकोऽपरः । पञ्चमो रासभादिः स्यादू, एतेष्वावश्यकस्स्वसौ ॥ २२ म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org